________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 235 चेत्, तर्हि जलाचित्तताकल्पने तव का व्यसनिता ? सचितमेव जलं केवलियोगमवेक्ष्याघात्यस्वभावं त्वया किं न कल्प्यते ? न खलु तव श्रुतपरम्पराङ्कुशरहितस्यादृष्टार्थकल्पने बाधकमस्ति, न चेदेवं तदा सचित्तवायुस्पर्शेऽपि तव केवलियोगानामघातकत्वसमर्थनं कथं स्याद्? इति / अथ वायुरपि सचित्ताचित्ततया प्रवचने द्विमकार उक्त इति सचित्तवायुस्पर्शमपि भगवतो नाभ्युपगच्छामः, किं त्वचित्तवायुस्पर्शमेव, अन्यथा तु भगवत्कायस्पर्शेनापि पृथिव्यादीनां भयोत्पत्तिः स्याद्, न चैवं सम्भवति / यदस्माकमभ्युपगमः-- " "पुढवीपमुहा जीवा उप्पत्तिप्पमुहभाइणो हुँति / जह केवलिजोगाओ भयाइलेसंपि ण लहंति // 1 // " इति चेत् , हन्तैवं सचित्तास्पर्श एव भगवतोऽतिशयः प्राप्तः, तत्राह-सचित्तस्यास्पर्शों न पुनर्जिनातिशयः सिद्धः, भक्तिभरनम्रमनुष्यादिस्पर्शस्य भगवति सार्वजनिनत्वाद् / अथ न सचित्तस्पर्शाभावमात्र भगवतोऽतिशयः, किन्तु यादृशसचित्तस्पर्शः साधूनां निषिद्धस्तादृशस्पर्शाभाव एवेति सचित्तजलादिस्पर्शाभावो भगवतोऽतिशयसिद्ध इति नानुपपत्तिरिति // 78 // तत्राह-- सोइसो कायको जागकओवाहविऊ केवलिणो। दुहयो वएिणयपुत्राणायो पायमविरोहो॥ ए॥ व्याख्याः--' सोइसओ' ति / स जलादिस्पर्शाभावलक्षणोऽतिशयः कायकृतः-कायनिष्ठ फलविपाकप्रदर्शको योगकृतो वा-योगनिष्टफलविपाकमदर्शको वा केवलिनो भवेद् / उभयतोऽप्यनिकापुत्रादिज्ञाततः प्रकटविरोध एव / नपत्रिकापुत्र-गजमुकुमारादीनामन्तकृत्केवलिनां सयोगिनामयोगिनां वा सचित्तजलतेजस्कायिकजीवादिस्पर्शस्त्वयापि नाभ्युपगम्यते; केवलं योगवतामयोगवतां वा तेषामन्तकृत्केवलिनां कायस्पर्शात्तज्जीवविराधनाऽविशेषेण घुणाक्षरन्यायेन स्वयमेव भवता स्वग्रन्थे क्वापि लिखिता; स्वाभ्युपगमरीत्या तु त्रयोदशगुणस्थानमुल्लङ्घ्य चतुर्दशगुणस्थाने वक्तुमुचितेति विशेषः / परतन्त्रस्यैवायं जलादि 1 पृथिवीप्रमुखा जीषा उत्पत्तिप्रमुखभाजो भवन्ति / यथा केवलियोगाद भयादिलेशमपि न लभन्ते // For Private and Personal Use Only