________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 217 योगा उच्यन्ते, जीवघातादिलक्षणारम्भादिजनकत्वेन कारणे कार्योपचारात् , शास्वसम्मतं च योगानामारम्भत्वम् / तदुक्तं भगवतीवृत्तौ-" ननु 'मिथ्यात्वाविरतिकषाययोगाः कर्मबन्धहेतच 'इति प्रसिद्धिः, इह तु आरम्भिक्यादयोऽभिहिता इति कथं न विरोधः ? उच्यते-आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहः, योगानां तद्रूपत्वात् , शेषपदेषु च शेषबन्धहेतुपरिग्रहःप्रतीत एवेति।” एतच्चायुक्तम्, आरम्भादिशब्दत्रयेण योगाभिधानस्य दुर्घटत्वाद्, एजनादिक्रियातिरिक्तकायादिसध्रीचीनजीवव्यापाररूपयोगसद्भावे प्रमाणाभावाद्, योगानां योगनिरोधरूपान्तक्रियायां प्रतिबन्धकत्वाभावाच्च नहि घटो घटनाशं प्रति प्रतिबन्धक इति / तस्मादे जनादिरहितो नारम्भादिषु वर्त्तते, तथा च न प्राणादीनां दुःखापनादिषु, तथा च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवर्तीति भगवतीवृत्तावेवाग्रे व्यतिरेकप्रदर्शनादेजनादीनामारम्भादिद्वाराऽन्तक्रियाविरोधित्व व्याख्यानमेव न्याय्यमिति / यत्तु एवमपि यद्यारम्भादिशब्दैरुक्तप्रकारेणेहाव्याख्यातत्वात् साक्षाज्जीवनातोऽभिमतः, तर्हि “जीवे णं भंते ! सया समिअं एयइ" इत्यादिसामान्यसूत्रे सयोगिजीवः केवलिव्यतिरिक्त एव ग्राह्यः, अन्यथा " सत्तहि ठाणेहिं केवलि जाणेज्जा"-इत्यादि विशेषमूत्रविरोधेन सूत्राभिप्रायकल्पने मतिकल्पना महानर्थहेतुः-इत्यायुक्तं तदुपहासपात्रम् , वृत्तिकुदभिप्रायोल्लङ्घनेन स्वस्यैव मतिकल्पनाया महानर्थहेतुखात् , ' सत्तहिं ठाणेहिं ' इत्यादिसूत्रस्य भिन्नविषयत्वेन मकृतसामान्यसूत्रावधिकविशेषसूत्रस्य केनापि ग्रन्थकारणानुपदर्शितत्वाचेति // 65 // ___ स्यादियमाशङ्का-सकलसयोगिगतैजनादि क्रियासामान्यस्य न साक्षादारम्भादिनियतत्वम्, भगवतीवृत्तावेव सूक्ष्मपृथिव्यादीनां साक्षादात्मारम्भकत्वनिषेधाद्, एवं च भवत्यपि केवलिनः सदा साक्षादारम्भानभ्युपगमेन यदा तदभावस्तदा द्वाराभावादेजनादिक्रिययाऽप्रतिबन्धात्केवलज्ञानोत्पत्त्यनन्तरमेव केवलिनोऽन्तक्रियाप्रसङ्गः / यदि चान्तक्रियायां कदाचित् क्रियामात्रस्य कदाचित्र साक्षादारम्भस्यानियतविरोधित्वं स्वीक्रियते तदा नियतारम्भादिद्वारकत्वेन तद्विरोधित्वव्याख्यानविरोध इत्यत्राह'आरंजाइजुअत्तं तस्सत्तीए फुडेई (हिं) ण उ तेहि। तस्सत्तीविगमे पुण जोगणिरोहो अपडिबछो // 6 // 1 आरम्भादियुतत्वं तच्छक्त्यां स्फुटन तु तैः / तच्छक्तिविगमे पुनर्योगनिरोधोऽप्रतिबद्धः // 66 // For Private and Personal Use Only