________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 " यस्मात्सर्वावस्थासु कर्मबन्धोऽस्ति, कर्मबन्धानुमेया च विराधना, इष्यते चासौ द्रव्यतो वीतरागस्यापि छमस्थस्य, चतुर्णामपि मनोयोगादीनामभिधानात्, 'ता'. तस्माद् एवंचिय'ति एवमेव विराधनायाः शोधनीयत्वेन 'एतद्' क्षालनादिकं 'विहितानुष्ठानं ' विधेयक्रिया ' अत्र ' कर्मानयनप्रक्रमे ' भवति / स्थाद् / इतिशद्वः समाप्त्यर्थों गाथान्ते योज्यः। किंविधं भवति ? इत्याह-'कर्मानुबन्धच्छेदन' कर्मसन्तानछेदकं 'अनघं '-अदोषम्, परोक्तदूषणाभावात् / किंभूतं सद् ? इत्याइ-'आलोचनादियुतं' आलोचनप्रतिक्रमणा दिप्रायश्चित्तसमन्वितमिति गाथार्थ इति // " ... वस्तुतः कर्मबन्धानुमेया द्रव्यविराधना निर्ग्रन्थस्य स्नातकस्य च तुल्या, द्वयोरपि सामयिककर्मबन्धहेतुत्वात् ; परं छमस्थानां विहितानुष्ठानमालोचनादियुतमिष्टसाधनम् , तथैव विधानात् , छमस्थयोगानां शोध्यत्वेन प्रायश्चित्तस्य च शोधकत्वेन व्यवस्थितेरित्यकषायस्य योगा ऐपिथिककर्मबन्धहेतुत्वेन, नायतनयाऽशुद्धा / अकषायश्च वीतरागः सरागश्च सञ्जवलनकषायवानप्यविद्यमानतदुदयो मन्दानुभावत्वात् तत्त्वार्थवृत्तौ निर्दिष्टः, अनुदरा कन्यानिर्देशवद् इत्यकषायस्य नायतना, न वा तस्यावश्यंभाविद्रव्यहिंसादिकमप्ययतनाजन्यमिति प्रतिपत्तव्यम् / यत्तूक्तं द्रव्यतोऽपि हिंसायाः कृतप्रत्याख्यानभङ्गेनालोचनाविषयत्वमिति तज्जैनसिद्धान्तपरिभाषाज्ञानाभावविजृम्भितम्, द्रव्याद्याश्रयेण हिंसादिभावस्यैव प्रत्याख्यातत्वाद्, द्रव्यहिंसादिना हिंसादिप्रत्याख्यानभङ्गाभावाद् अनेनैवाभिप्रायेण धर्मोपकरणाङ्गीकरणे " से अपरिग्गहे चउबिहे पण्णत्ते, दबओ खित्तओ०" त्यादिक्रमेण प्रत्याख्यातस्य परिग्रहस्य न भङ्गदोष इति विशेषावश्यके दिगम्बरनेराकरणस्थलेऽभिहितम् / तथा च तद्ग्रन्थः " अपरिग्गहयासुत्तेत्ति जा य मुच्छापरिग्गहोऽभिमओ। - सव्वदव्वेसु न सा कायव्वा सुत्तसन्मावो॥" या च " सव्वाओ परिग्गहाओ वेरमणम् " इत्यादिनाऽपरिग्रहतासूत्रे प्रोक्तेति त्वया गीयते, तत्रापि मूच्र्छव परिग्रहस्तीर्थकृतामभिमतो नान्यः / सा च मूर्छा यथा वस्ने तथा सर्वेष्वपि शरीराहारादिद्रव्येषु न कर्त्तव्येति सूत्रस 1 स च पारिग्रहश्चतुर्विधः प्रज्ञप्तः, द्रव्यतः क्षेत्रतः। 2 अपरिग्रहतासूत्र इति या च मूर्छा परिग्रहोऽमिमतः / सर्वद्रव्येषु न सा कर्तव्या सूत्रसद्भावः // 3 सर्वात्प्राणातिपातादू विरमणम् // For Private and Personal Use Only