________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 187 " हिसिज्ज ण भूयाइं इत्थ पयत्यो पसिद्धगो चेव / मणमाईहिं पीडा सव्वेसिं चेव ण करिज्जा" // 1 // " हिंस्याद् व्यापादयेद् न नैव भूतानि पृथिव्यादीन् प्राणिनः, अत्र सूत्रे पदार्थः प्रसिद्धकश्चैव प्रख्यातरूप एव, तमेव दर्शयति-मनादिभिमनोवाकायैः पीडां सर्वेषां चैव समस्तानामपि न कुर्याद् न विदध्यादिति / तथा "आरंभिपमत्ताणं, इत्तो चेइहरलोचकरणाई / ___ तकरणमेय अणुबंधओ तहा एस वकत्थो" // 68 // व्याख्या-आरम्भः-पृथिव्याधुपमईः स विद्यते येषां ते आरम्भिणो गृहस्थाः, प्रमाद्यन्ति निद्राविकथादिभिः प्रमादः सर्वसावधयोगविरतावपि सत्यां ये ते प्रमत्ता यतिविशेषाः, आरम्भिणश्च प्रमत्ताच तेपात्र, इत:-पदार्थाच्चैत्यगृहलोचकरणादि, चैत्यगृहमहतो भगवतो बिम्बाश्रयः, लोचकरणं केशोत्पाटनरूपम्, आदिशब्दात् तत्तदपवादाश्रयणेन तथा तथा प्रवचनदुष्टनिग्रहादिपरपीडाग्रहस्तेषां करणात् ; तत्करणमेव प्रानिषिद्धहिंसादिकरणमेव प्राप्तम् / कुतः ? इत्याह-अनुबन्धतोऽनुगमात् तथा तत्पकारायाः परपीडाया इत्येष चालनारूपो वाक्यार्थ इत्यर्थः।। " अविहिकरणेमि आणाविराहणा दुट्ठमेव एएसि / तो विहिणा जइअव्वं ति महावकत्थरुवं तु // 69 // व्याख्या-अविधिकरणेऽऽनीतिविधाने चैत्यलोचादेरर्थस्याज्ञाविराधना भगवचनविलोपना दुष्टमेव, एतेषां चैत्यगृहादीनां करणम्, तत्रेयमाज्ञा जिनभवनकारणं विधिः शुद्धा भूमिर्दलं च काष्ठादि / भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन // " लोचकर्मविधिस्तु“धुवलोओ अ जिणाणं वासावासेसु होइ थैराणं / 1 हिंस्याद् न भूतानि अत्र पदार्थः प्रसिद्धकश्चैव / मनआदिभिर्न पीडां सर्वेषामेव न कुर्यात् // 2 आरम्भिप्रमत्तानामितश्चैत्यगृहलोचकरणादि / तत्करणमेवानुबन्धतस्तथा एष वाक्यार्थः // 3 अविधिकरणे आशाविराधना दुष्टमेव एतेषाम् / ततो विधिना यतितव्यमितिमहावाक्यार्थरूपस्तु // 4 ध्रुवलोचश्च जिनानां वर्षावासेषु भवति स्थविराणाम् / तरुणानां चतुर्मास्यां वृद्धानां भवति षण्मास्याम् // For Private and Personal Use Only