________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180 'बजतोय'त्ति / तत्र नद्युत्तारे जलजीवविराधनामनिष्टां साक्षावर्जयन् वर्जनोयामभ्युपगच्छेश्च जलजीवानाभोग जल्पयन् किं न लजसे ? अयं भावा-नातारे बहुजलप्रदेशपरित्यागेनालजलप्रदेशमवेशरूपा यतना तावत्वयापि स्वीक्रियो, सा च जलजीवानाभोगाभ्युपगमे दुर्घटा, स्वल्पजलं सचित्तं भविष्यति बहु जलं चाचित्तमिति विपरीतप्रवृत्तिहेतुशङ्कापिशाचीपचारस्यापि दुरत्वाद् / भगवदुक्तयतनाक्रमप्रामाण्यानेयं शङ्केति चेत् , तर्हि यतनाया अपि बहुतरासत्पत्तिनिवृत्तिरूपाया विकेन परिज्ञानं न्यूनाधिकजलजीवविराधनाभोगाधीनमिति व्यवहारसचित्ततया जलजीवाभोगाभ्युपगमावश्यकत्वात् तब वद्(तो)व्याघात एव महात्रपाकारणमिति / किञ्च-नद्यादिजलजीवानां निश्चयतश्छमस्थानां सचित्तत्वापरिज्ञानेऽपि तत्र स्थितपनकसेवालादीनां निश्चयतोऽपि सचित्तत्वं परिज्ञायते एव / तदुक्तमोघनिर्युक्तो 'सन्चो अणंतकाओ सञ्चित्तो होइ णिच्छयणयस्स / ववहारओ अ सेसो मीसो पम्हाणरोट्टाइ // 1 // " " एतवृत्तिर्यथा-सर्व एवानन्तवनस्पतिकायो निश्चयनयेन सचित्तः, शेषः परीतवनस्पतिर्व्यवहारनयमतेन सचित्तो मिश्रश्व प्रम्लानानि कुसुमानि पनि च, 'रोट्टो लोट्टो तत्थ तंदुलमुहाई अत्यंति, तेण कारणेन मीसो भनइत्ति / " ते च पनकशेवालादयो जलेऽवश्यं भाविन इति तद्विषयषिराधना निश्चयतोऽप्याभोगेन सिद्धेति / तत्रानाभोगेनैव जीवविराधनेति दुर्वचनम् / न च ते तत्रास्माभिः प्रत्यक्षतो न दृश्यन्ते, अतस्तविराधनाऽनाभोगजैवेति वक्तव्यम्; स्वच्छस्ताकजलनधादिषु पनकादीनामस्माभिरप्युपलभ्यमानत्वेन 'नास्माभिस्ते तत्र दृश्यन्त'-इत्यस्यासिद्धत्वात् / किंच आगमवचनादपि तत्र तदवश्यंभावी निश्चीयते / तदुक्तंप्रज्ञापनातृतीयपदवृत्तौ-"बादरतेजस्कायिकेभ्योऽसख्येयगुणाः प्रत्येकशरीरवादरवनस्पतिकायिकाः, तेभ्यो बादरनिगोदा असङ्ख्येयगुणाः, तेषामत्यन्त सूक्ष्मावगाहनत्वाद्, जलेषु सर्वत्रापि च भावात् / पनकसेवालादयो हि जलेऽवश्यभाविनः, ते च बादरानन्तकायिका इति / तथा बादरेष्वपि मध्ये सर्वबहवो वनस्पतिकायिकाः, अनन्तसङ्ख्याततया तेषां प्राप्यमाणत्वात् / ततो यत्र ते वहवस्तत्र ब 1 सर्वोऽनन्त कायः सचित्तो भवति निश्चयनयस्य / व्यवहारतश्च शेषो मिश्रः प्रम्लानरोद्यादिः // For Private and Personal Use Only