SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सगे:४ || ७६॥ ॥७६॥ बालाजी नाथैकदिनभुक्तानि, वस्त्राण्याभरणानि च । नोपभुक्त सपत्नीको, द्वितीयदिवसेप्यसौ ॥ ७१ ॥ ततो न क्षमते स्थातु-मयं हि सुखलालितः। प्रसद्य स्वामिनः पादा, विसृजन्त्वविलम्बितम् ॥ ७२ ।। ततश्च श्रेणिकः प्राहा-नभिज्ञा (ज्ञां) चेल्लणा (णां) धुवम् । अपूर्वः कोऽपि सत्पुण्य-महिमा हि महीयसाम् ।। ७३ ॥ अहो सत्पात्रदानस्य, कस्याप्येवमिदं फलम् । तपसो वा सुचीर्णस्य, यदेवं किङ्कराः सुराः ।। ७४ ॥ तत्त्वं वत्स समुत्तिष्ट, गच्छ स्थानं समीहितम् । आरुरोह ततः शालि-भद्रोऽसौ षष्ठभूमिकाम् ॥ ७ ॥ श्रेणिकोऽपि समुत्थाय-जगामाधस्तनीं भुवम् । ततः सलीलगमनः, कुञ्जरः पर्वतादिव ।। ७६ ।। ततो वस्त्राणि रत्नानि, हस्तिनोऽश्वान् स्थानपि । प्राभृतं ढोकयामास, भद्रा श्रेणिकभूभुजे ॥ ७७ ।। श्रेणिकं तदगृहन्तं, प्राह भद्रातिगौरवात् । न मे देव मनःस्वास्थ्य-मेवमेवोपपद्यते ॥ ७८ ।। तत्सद्योऽनुगृहाणैतदङ्गीकरणतोऽत्र मां । मन्त्रिणोऽप्यूचिरे देव, भद्राया क्रियतां वचः॥ ७९ ॥ ततस्तदुपरोधेन, मन्त्रिवाक्याच्च तन्नृपः । प्रतिजग्राह सन्तो हि, स्युर्दाक्षिण्यपरायणाः ।। ८० ॥ ततः सेचनकारूढः, समं चेल्लणया नृपः । अमात्यादिपरिवारो, जगाम निजमन्दिरम् ॥ ८१ ॥ भद्रा सनोपयामास, हडशोभांशुकादिकम् । चातुरी परमैषा हि, यत्कालोचितकारिता ॥ ८२॥ यावच्छ्रेष्ठिसुतस्तस्थो, भागतृष्णापराङ्मुखः। तावत्कल्याणमित्रेणा-भाष्यतागत्य केनचित् ।। ८३ ।। समुद्र इव गम्भीरो, गुरुसत्त्वसमन्वितः । सुमेरुरिव मध्यस्थः, स्थैर्यवान् विषुधप्रियः ॥ ८४ । Meaneminine For Private and Personal Use Only
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy