SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥५८॥ महाकाव्यम् सर्गः४ J.|५८॥ जन्मान्तरार्जितागण्य-पुण्येनाद्भुतवैभवः । स्वामिस्त्वनगरे जज्ञे, भद्रागोभद्रनन्दनः ॥४०॥ रमतेऽसौ स्वपत्नीभिः, प्रासादे देवनिम्मिते । अप्सरोभिरिव स्वर्गे, निश्चिन्तस्त्रिदशेश्वरः ४१ इत्यादि शालिभद्रस्य, वर्णनं स्वसुताननात् । श्रुत्वा प्रतीये भूपाल, आप्ते प्रत्येति को न हि ॥ अहो धन्योऽहमित्येव-मचिन्तयदसौ तदा । निवसन्ति यदीक्षा, वणिजोऽपि हि मत्पुरे ॥४॥ पश्यामि शालिभद्रं चे-इद्रागजमहं तदा । भद्रं स्यादिति सश्चित्य, सोत्कण्ठस्तस्य दर्शने ॥४४॥ आहूत्यै शालिभद्रस्य, प्रधानपुरुषं ततः । तदेव प्रेषयामास, श्रीश्रेणिकमहीपतिः ॥ ४५ ॥ सोऽपि तद्गृहमायात-स्तमपश्यन्नूवाच ताम् । भद्रेऽहं प्रेषितो राज्ञा, शालिभद्रं दिढेक्षुणा ॥४६॥ त्वरितं शालिभद्रं त-स्प्रेषयोशिसन्निधौ । येन तद्दर्शनात्स्वामी, लभते प्रमदोदयम् ॥४७॥ भद्रापि तमुवाचैवं, भूपतेस्त्वं निवेदय । अप्रसादो विधातव्यो, नाम्मासु स्वामिना यतः ॥ ४८ ॥ सुकुमारशरीरोऽयं, शालिभद्रो ममानजः । पादमप्यसहो दातुं, पहिरेष स्वमन्दिरात् ॥ ४९ ॥ कदाचिन्नेक्षते योऽर्क-चन्द्रयोर्मण्डले अपि । कथंकारं समायातु, युष्माकं स निकेतनम् ॥५०॥ इत्युक्तो भद्रया सोऽथ, समागत्य नृपान्तिकम् । स्वरूपं शालिभद्रस्य, निजगाद यथाश्रुतम् ५१ अत्वरिष्टतरां राजा, ततस्तद्दर्शनं प्रति । अहो पुण्यस्य सौभाग्य-कारिता काऽप्यलोकिकी ५२ १ द्रष्टुमिच्छता २ हषादयम् For Private and Personal Use Only
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy