SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit पन्यशाली महाकाव्यम् | सर्गः४ श्रीमतः शालिमद्रस्य,श्रेष्टिपुत्रस्य मन्दिरम् । श्रूयतेऽत्र महाभूति-कलितं विश्रूतं भुवि ॥१३॥ गच्छामस्तत्र चेद्रा-श्रेष्ठिन्यौदार्यशालिनी। गृह्णीयान्नोपभोगार्हाः, कंदर्यावर्यवस्तुनः ॥ १४ ॥ आगत्यान्तःपुरे काचि-चेटिका श्रेणिकान्तिकात् । कम्बलाग्रहणोदन्त, चेल्लाणायै न्यवेदयत् ॥१५॥ विमृज्य परिषल्लोक-मुत्थायास्थानमण्डपात् । तदैवं वसुधाधीशो-ऽप्यगादन्तःपुरं किल ॥१६॥ चेल्लणोवाच किं स्वामिन् , युष्माभिर्मम हेतवे । नाग्राहि कम्बलः कोऽपि, किं नाहं तव वल्लभा १७ स्वामिन् कृपणता केयं, निःस्वस्येव तवेदृशो। उदारचरिता यस्मा-भवन्ति पृथिवीभुजः ॥ १८ ॥ तथा नाथ तव ख्याति, ये श्रुत्वेह समागताः । वणिज स्तत्पुरो यूयं, लघूभूतास्तदग्रहात् ॥ १९ ॥ यत्र यत्र भ्रमिष्यन्ति, नैगमास्तत्र तत्र ते । अकीर्तिपटहं स्वामिन , वादयिष्यन्ति तेऽन्वहम् ॥२०॥ यदि मूल्यं न ते नाथ, विद्यते तदिमां मम । रत्नावलि समादाया-दत्स्वैकं रत्नकम्बलम् ॥ २१॥ मा भवन्तु गताशास्ते, समागत्य तवान्तिकं । अभीष्टं पूरयन्त्येव, कल्पकृक्षा इवोत्तमाः ॥२२॥ इत्येवं कथिते देव्या, श्रेणिकः पृथिवीपतिः। तदैवाकारयामास, रत्नकंबलनेगमान् ॥ २३ ॥ भो भद्रा मम मूल्येन, दध्वं रत्नकम्बलम् । एकं दीनारलक्षेणे-त्युक्ता राज्ञाऽवदन्निदम् ॥ २४ ॥ स्वामिनितो विनिर्गत्य, कम्बलाविक्रये वयम् । विषण्णाः शालिभद्रस्य सर्वेऽगच्छाम मन्दिरम् ॥२६ १ कृपणा, २ सभामण्डपात् For Private and Personal Use Only
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy