________________
Shri Mahavir Jain Aradhana Kendra
धन्यशाली भद्र॥ ३६ ॥
www.kobatirth.org
इत्थं कथयता बन्धु - वर्गेण प्रतिबोधिता । लौकिकाचारमखिलं बन्धुभिः सह साकरोत् ।। २०२ । सद्धर्मनिरता सबै गृहकार्य च कुर्वती । कियत्यपि गते काले, शोकं स्तोकीचकार सा ॥ २०३ ॥ इतश्च ववृधे शालिभद्रोऽपि निजमन्दिरे । कल्पशाखीव हेमाद्रि कन्दरे निरुपद्रवम् ॥ २०४ ॥ सञ्चचार स बन्धूना - मङ्कादङ्कं निरन्तरम् । वर्षनङ्गेषु सर्वेषां संस्पर्शन सुधामिव ॥ २०५ ।। धात्रीभिर्लाल्यमानं तं वर्द्धमानमहर्निशं । मूर्त्तिमन्तमिव स्वार्थ-मपश्यन् बान्धवा मुदा ॥ २०६ ॥ सुसाधुदानार्जितपुण्यपुण्या-कृष्टः सदास्य व्यतनोदभीष्टम् ।
गोभद्रजीवामर एयभाग्ययुक्तस्य देवा अपि किङ्कराः स्युः || २०७ ।। इति श्रीधन्यशालिभद्रमहर्षिचरिते राजगृहे राजश्रेष्ठिमालिककन्यासोमश्रीसुन्दरीकुसुमावलीजन्मसखीभाव
शालिभद्रोत्पत्तिगोभद्रश्रेष्ठिसमुद्रारोहणप्रवहणभङ्गदेवत्वावासिपुत्रानुकम्पनाभीष्टकरणव्या वर्णनो
नाम द्वितीयः परिच्छेदः ॥ २ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
महाकाव्यम् सर्गः २
।। ३६ ।।