________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandit
धन्यशाली
महाकाव्यम् सर्गः २
भद्र
॥२४॥
॥२४॥
अभूतामुज्ज्वले नेत्रे, विशाले श्यामतारिके। पुण्डरीके इवोत्फुल्ले, अन्तर्धाम्यन्मधुव्रते ॥५१॥ लम्बलोले श्रवःपाल्यौ, त्यक्ताष्टापदकुण्डले । स्मरखे इवाभातां, सुसंस्थानमनोहरे ॥५२॥ कुचौ शिंतिमुखौ गौरी, लावण्यामृतपूरितौ । स्वर्णकुम्भाविव श्यामा-म्भोजच्छन्नौ विरेजतुः ॥५३॥ उदरं गूढगर्भत्वा-नैव तत्याज तानवम् । भवन्ति मातरो गूढ-गर्भा यत्पुण्यशालिनाम् ॥५४॥ गतिरप्यलसा तस्या, राजहंस्या इवावभौ । वचोऽपि मधुरं श्रुत्यो-रमृतस्यन्दि चाऽभवत् ॥५५॥ ईक्षणक्षणदायीनि, लक्षणानीतराण्यपि । सुन्दराण्यभवंस्तस्या, देहे गर्भप्रभावतः ॥५६॥ न स्निग्धै तिरुक्षश्च, नात्युशै तिशीतलैः । नैव तिक्तैनचात्यम्ले- क्षारैर्न च नीरसैः ॥७॥
किन्तु मष्टैहितैः पथ्यै-मधुरैर्मुखरोचकैः । मनःप्रहादिभिर्देह-सुखदैः सर्वदैव हि ॥ ५८ ॥ अशनैः पानकैः खाद्यैः, स्वाद्यैरत्यन्तसुन्दरैः । गर्भ तं वर्द्धयामास, श्रेष्टिपत्नी प्रयत्नतः ॥ ५९॥ त्रिभिर्विशेषकम् ॥
ऋषभादिमहावीर-पर्यन्तानामिहार्हताम् । पुण्डरीकेन्द्रभूत्यादि-महर्षीणां कदाचन ॥ ६ ॥ सीताञ्जनासुभद्रादि सतीनां च कदापि हि । पवित्राणि चरित्राणि, श्रुश्रावासौ प्रमोदिनी।६रायुग्मम् कदाचित्कलगीतानि, गुरूणामहतामपि । सा पिबत्यमृतानीव, श्रवःपत्रपुटैः स्फुटम् ॥ १२ ॥
कदाचिन्नर्तकीनृत्य-महारादिबन्धुरम् । हावभावमनोहारि, पश्यति निश्चलासना ॥ ६३ ॥ १ मधुवता भ्रमरा २ कर्णसमीप भागौ,३ त्यक्तसुवर्णकृण्डले ४ कामदोले ५ श्याममुखौ ६ कृशत्वम् ७ नेत्रोत्सवदायीनि ८ शोधितैः
For Private and Personal Use Only