________________
Shri
bin Aradhana Kendra
www.kobairth.org
r i Gyarmandie
आशातनाः
चैत्यश्री धर्म० संघाचारविधी ॥४५॥
Acharya Shri Ka क्षमाश्रमणपूर्व इच्छाकारेण संदिसह भगवन् ! चैत्यवंदनं करोमीति भणित्वा 'नमुक्कार'त्ति-श्यामौ नेमिमुनी उभौ विमलतः पट्पंच नाभेयतः, श्रेयोवीरसुपार्श्वशीतलनमिवैरोचिषः षोडश । द्वौ चंद्रप्रभसद्विधी सितरुची द्वौ पार्श्वमल्ली शिती, द्वौ प्रद्मप्रभवासुपूज्यजिनपौ रक्तौ स्तुवे श्रेयसे ॥१॥ देवेन्द्रादिमिरहिंतानरिहतः स्तौम्यर्हतः सन्मुदा, विद्यानंदमुखाद्यनंतसुगुणैः सिद्धान् समृद्धान् सदा । आचार्यान् यतिधर्मकीर्तितसमाचारादिचारून् महोपाध्यायान् श्रुतधर्मघोषणपरान् साधून विधेः साधकान् ॥२॥ अर्हतो मम मंगलं विदधता देवेन्द्रवंद्यक्रमा, विद्यानंदमयास्तु मंगलमलंकुर्वन्तु सिद्धा मम । मह्यं मंगलमस्तु साधुनिकरः सद्धर्मकीर्तिस्थिती, मंगल्यं श्रुतधर्मघोषणपरं धर्म सुदृग्मिः श्रये ॥३॥ इत्यादिरूपा यथारूचि यथाप्रस्तावमेकद्विव्यादिनमस्कारा भणनीयाः, ततः 'कहं नमति ?, सिरपंचमेणं काएण' मित्याचारांगचूर्णिणवचनात् पंचांगप्रणाम कुर्खता 'तिक्खुत्तो मुद्धाणं घरणितलंसि निवेसेइ' इत्यागमात् त्रीन् वारान् शिरसा भूमी स्पृष्ट्वा 'नमोत्थुणं'ति 'भुवणिकगुरुजिणिंदपडिमाविणिवेसियनयणमाणसेण धन्नोऽहं पुन्नोऽहंति जिणवंदणाए सहलीकयजम्मुत्ति मन्त्रमाणेण विरइयकरकमलंजलिणा हरिययतणबीयजंतुविरहियभूमीए निहिउभयजाणुणा सुपरिफुडसुविदियनिस्संकजहत्थसुत्तत्थोभयं पए पए भावेमाणेणं जाव चेइए वंदियव्वे'त्ति, तथा 'सकत्थयाई चेइवंदणं'ति महानिशीथतृतीयाध्ययनोक्तविधिप्रामाण्यात् भूनिहितोभयजानुना करधृतयोगमुद्रया शक्रस्तवदंडको भणनीयः,तदंते च पूर्ववत् प्रणामं कृत्वा समुत्थाय जिनमुद्रास्थितचलनो योगमुद्रया 'अरिहंत ति अरिहंतचेइयाणमित्यादि चैत्यस्तवदंडकं पठति, उक्तं च-"उट्ठिय जिणमुद्दाठियचरणो करधरियजोगमुद्दो य । चेइयगयथिरदिट्ठी ठवणाजिणदंडयं पढइ ॥ १॥ कायोत्सर्गे च 'ऊसासा अट्ट सेसेसुत्ति वचनात् अष्टोच्छासपूरणार्थमष्टसंपदं नवकारं चिंतयित्वा तं पारयति, ततः 'थुइ'त्ति अधिकृतजिनस्तुति |
PURNttaminiumASSPittalior
॥४५१॥
For Private And Personal