SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Shri Mang Lain Aradhana Kendra www.kobatirh.org Acharya Shri K r suri Gyanmandie अधिकार प्रामाण्यम् श्रीदे चैत्य श्रीधर्म० संघाचारविधी ॥३९२॥ न केवलं दसमैकादशावधिकारौ चूर्णिकारभणितत्वात् भण्येते,किंतु द्वितीयोऽपीत्यपिगम्यः,जे य अईयेत्यादिलक्षणोऽप्यधि- कारः श्रुतस्तवस्य चतुर्थदंडकस्य आदौ पुक्खरवरदीतिगाथायां अर्थतो-अर्थमाश्रित्य वणितो-व्यावणितस्तत्रैव-आवश्यकचू वेव, अयमत्र भावार्थः-द्वितीयाधिकारार्थो द्रव्याहवंदना, सा च तत्र भणिता, तथाहि-उक्कोसपएणं सत्तरं तित्थयरसयं जहण्णपएण वीसं तित्थयरा, एए ताव एगकालेणं भवंति, अईया अणागया अणंता ते तित्थयरे नमसामित्ति एवं चूणिव्याख्या| तार्थस्वरूपत्वेन चूर्युक्त एवायमपीति भण्यते, ननु यद्येवं चूर्युक्तार्थतयाऽयं मण्यते तर्हि तत्रैव भण्यता, किमन्यत्र पाठेनेत्याह| शक्रस्तवांते-प्रणिपातदंडकानंतरं पठितो-भणितः पूर्वाचा:-पूर्वैरनुयोगकृद्भिः, शक्रस्तवांतेऽस्य स्थानात् , भावार्हवंदनानंतरं द्रव्याहवंदनायाः क्रमप्राप्तत्वात् , प्रथमाधिकारेऽपि नवमसंपदि किंचित्तभणनात् ,अस्य तु तद्विस्तरार्थत्वाद् , इत्थमेव च बहुभव्योपकारदर्शनात् भावप्राधान्याश्रयेण च पश्चानुपूर्ध्या चैत्यवंदनायाः प्रारंभात् , तस्या अप्यागमेऽनुज्ञातत्वात् , श्रुतस्तवादौ त्वस्य पाठेऽनानुपूर्व्या अप्यसंभवात् तन्मध्यपाठेऽपि व्यत्यानेडितदोषप्रसंगात् , शक्रस्तांतभणने तु दोषासंभवात् , दंडकांतेन्न्यस्यापि | स्तुतिस्तवादेर्भणनादित्येवं निर्दोपत्वेन पूर्ववृद्धैः शक्रस्तवांते अयं पठितस्तथैव भण्यते, वृद्धाचरितस्य जीतव्यवहाररूपत्वात् ,उक्तं च-"जीयंति वा करणिज्जत्ति वा आयरणिज्जंति वा एगट्ठा" तथा "वत्तणुवत्तपवत्तो बहुसो जासेविओ महाणेण । एसो य जीयकप्पो पंचमओ होइ ववहारो ॥१॥ वत्तो नाम इक्कसि अणुवत्तो जो पुणोवि बियवारं । तइयट्ठाण पवत्तो मुपरिग्गहिओ महाणेण||त्ति, वृत्त एकदा नवो जातः पात्रबंधग्रंथ्यादिवदित्यादि, तथा, प्रकटोऽर्थः-सुगमार्थः, कृत इति शेषः,बालादिनाऽप्येवं शुभभाववृद्धः, चूर्युक्तमर्थ हि केचदेव जानते, एवं तु पाठे मंदमतीनामपि भवति यथा वयं त्रिकालभाविनो जिनानधुना वंदामहे, For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy