________________
ShriMB
nAradhana Kendra
www.kobarth.org
Acharya Shri Kailash Seersun Gyanmandit
श्रीदे० चैत्यश्रीधर्म०संघाचारविधौ ॥३०२॥
शक्रस्तवव्याख्या
MILAIMARRIAANI
PABILIAMERI
णीयदर्शनावरणीयमोहनीयांतरायेतिघातिकर्मचतुष्टयं तद्व्यावृत्तं-अपगतं येभ्यः ते व्यावृत्तच्छद्मानः तेभ्यः२, नणु अट्ठवि कम्माई जिणाण नट्ठाई किं चउक्केण ? । सचं ओसरणत्थे पडुच्च छउमक्खओ भणिओ ॥६२॥ संपत् ७। अथ स्वतुल्यपरफलकर्तृत्वमाह'जिणाण'मित्यादि, जिनेभ्यः-स्वयं च रागादिजेतृभ्यः, जापकेभ्यः अन्येषामप्युपदेशादिना रागादिजयकारयितृभ्यः, तीर्णेभ्यः स्वयं भवार्णवपारगतेभ्यः परेषामपि ततस्तारयितृभ्यःबुद्धेभ्यः स्वयंज्ञाततत्वेभ्यः बोधकेभ्यः अपरेषामपि तत्वज्ञापकेभ्यः मुक्तेभ्यः स्वयं भवहेतुकर्मपाशनिर्गतेभ्यः मोचकेभ्य इतरेषामपि ततः प्रमोचयितृभ्यः४, संपत ८, एतावता केवल्यवस्थाभावनोक्ता, सांप्रतं | सिद्धावस्थामाश्रित्य नवमीं संपदमाह-'सबन्नूण'मित्यादि, सर्व वस्तु सामान्यविशेषात्मकमपि प्रथमसमये विशेषात्मकतया जानतीति सर्वज्ञास्तेभ्यः, ततो द्वितीयसमये सर्व वस्तु सामान्यात्मकतया पश्यंतीत्येवंशीलाः सर्वदर्शिनस्तेभ्यः, आह–इत्थमेषां दर्शनसमये ज्ञानस्यासवादसर्वज्ञताप्रसंगः, नैवं, सर्वस्य केवलिनः सदैव ज्ञानदर्शनलब्धिसद्भावेऽपि तत्स्वाभाव्यान्न युगपदेकस्मिन् समये उपयोगद्वयसंभवः, क्षायोपशमिकसंवेदनेऽपि तथा दर्शनात् , न च चतु निनोऽप्येकस्मिन् ज्ञानोपयोगे सति शेषज्ञानाभावः स्यात् , अत्र बहु वक्तव्यं, तत्तु नोच्यते (तच्च वृहत्कल्पतो ज्ञेयं) ग्रंथगौरवभयात् , तथा अप्रतिहतवरेत्याद्युक्त्वा पुनरिह विशेषणद्वयोपादानं मुक्तावस्थापेक्षं 'सिवमलयं चेत्यादि,शिवं सर्वोपद्रवाभवात् अचलं स्वाभाविकप्रायोगिकचलनक्रियाविरहात् अरुजं रोगवर्जितत्वात् , अनंतं अनंतसिद्धमानात् (अनंतज्ञानात्मत्वाद्वा), अक्षयं विनाशहेत्वभावात् अव्याबाघ देहमनोव्याबाधारहितं अमूर्तत्वात् न पुनर्भवे आवृत्तिः-आगमनं यस्मात् तदपुनरावृत्ति भवभ्रमणहेतुकाभावात् , उक्तं च-दडूमि जहा बीए न होइ पुण अंकुरस्स उप्पत्ती। तह कम्मवीयविरहे भवंकुरस्सावि नो भावो॥६३।।(२८६)त्ति, सर्वत्र सिद्धिगतजीवानामिति गम्यं, आधेयवशा-
MUDRA
munam
॥३०२॥
For Private And Personal