SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri श्रीदे० चैत्य० श्री - धर्म० संघा - चारविधौ ॥२७८॥ ain Aradhana Kendra www.kobatirth.org Acharya Shri Kailiguri Gyanmandir पास जिनिंदस्स पास गहियवओ । होउं गणहरदेवो सिद्धिं पत्तो घुयकिलेसो || ८२ ॥ एवं विक्रमसेनवृत्तमतुलं संचित्य चित्ते चिरं, पश्चात्तापहुताशभासुरशिखानिर्दग्धपापद्रुमाः । निःशेषार्जितकर्म्मजालहतये मोक्षैकबद्धस्पृहा, मिथ्यादुष्कृत सावधानमनसो भन्या ! भवंतु स्फुटम् ||८३|| इति मिध्यादुष्कृते विक्रमसेनकुमारदृष्टांतः ॥ २६ ॥ एवमालोचितप्रतिक्रांतः कायोत्सर्गप्रायश्चित्तेन पुनरात्मविशुद्ध्यर्थं प्रतिक्रमणविशेषरूपां अष्टमी संपदमाह-तस्स उत्तरीकरणेणं ( पायच्छित्तकरणेणं) विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्धायणट्टाए ठामि काउस्सग्गं ॥ तस्य- आलोचनाप्रतिक्रमणादिनाऽशुद्धातिचारस्योतरीकरणादिना ठामि काउस्सग्गमिति योगः, यद्वा तस्सत्ति प्राकृतत्वात्तेषां गमनादिप्रभवानां पापानां कर्म्मणां निर्घातनार्थं कायोत्सर्गं करोमीति योगः, यद्भाष्यं-तेसिं गमागमाईसमुत्थपावाण घायणनिमित्तं । उस्सगे ठामि अहं उत्तरकरणाइऊहिं ॥ १ ॥ (३८३) तत्रानुत्तरस्योत्तरस्य करणं पुनः संस्कारद्वारेणोपरिकरणं शलाकादिशोधितदेहत्रणादेः पिंडीबंधप्रलेपादिवत् उत्तरीकरणं तेन हेतुना, तदर्थमित्यर्थः, 'अवराहसल्लपभवो भाववणो होइ नायव्वो' इति वचनात् तस्यालोचनाप्रतिक्रमणादिना शोधितस्य विराधनाप्रकाराख्यभावव्रणस्य संरोहणार्थं प्रलेपादिकल्पं ध्यानमौनांगचेष्टानिवृत्यादि करोमि १, एतच्च प्रायः प्रायश्चित्तकरणेन कार्यकारि स्यात्, प्रायश्चित्तं च यथा द्रव्यत्रणे कृतेऽपि प्रलेपादौ लावणिकाद्युद्भाव्यदोपप्रसंगभीत्या रक्तचंदननीलितिलकादि क्रियते तथाऽत्राप्यनवस्थाद्यनुत्पत्तये पंचविंशतिउच्छ्रासादिना कायोत्सर्गाख्यं पंचमं प्रायश्चित्तं, भणितं च- "तस्स य पायच्छित्तं जम्म | ग्गविऊ गुरू उवइति । तं तं आयरियव्वं अणवत्थपसंगभीएणं ॥ १ ॥ इकेण कयमकअं० गाहा, तथा - करोत्यादौ तावत् सघृणहृदयः किंचिदशुभं, द्वितीयं सापेक्षो विमृशति कार्यं च कुरुते । तृतीयं निश्शंको विगतघृणमन्यत् प्रकुरुते ततः पापाभ्यासात् सततम For Private And Personal तस्स उत्तरीव्याख्या ॥। २७८ ।।
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy