________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम् स्निग्धा शस्त्रसहा गभीरनिनदा दिश्याहिताग्रा शिला । ग्राह्या बिम्बविधौ ... ... ... ॥ इति ।
(अ० १४, ११ श्लो०) दिश्याहिताग्रेति दिशि आहितम् अर्थादवस्थितम् अग्रं यस्यास्तादृशीत्यर्थः। दिक्शब्दश्रुत्या जायमानं जनानां कोणभ्रममपनयन स्पष्टमाह तत्रैव ग्रन्थकारः
"दुःस्पर्शापदिशं निवेशितशिरोदेशा विवा शिला" इति । (श्लो० १०) अपदिशमिति अन्तरालं कोणमित्यर्थः। तथा च अमरः
"क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम्" इति । कोणनिवेशितशिराः शिला वयेत्यर्थः ।
"कोणशीर्षा शिला त्याजा भर्तुर्दुःखकरी यतः” (अ० १४, ४ श्लो०) इति च स्पष्टात् स्पष्टतरं तत्रैव ।
ग्रन्थकृता कृतः समाधिस्तु न युक्तिं सहते। तथा हि-पूर्वोक्तैः काभ्यपमयशिल्परत्नादिषचनैरैकमत्येन शिलायाः प्रागुदगग्रत्वं प्रतिपद्यते, एवञ्च प्रागग्रया शिलया प्रागग्रा, उदगग्रया शिलया चोदगौव प्रतिमा युक्तितः करणीयेति किमिति तं पन्थानमुत्सृज्य ग्रन्थकृता नवीन इव पन्थाः समवलम्बितः किं वा तत्र प्रमाणं तेनोपलब्धमिति न जानीमः ।
यद्यप्यस्मत्सूचितेऽथे स्फुटं कमपि ग्रन्थान्तरसंवादं नोपलभामहे, तथाऽप्येकत्र दृष्टः शास्त्रार्थो बाधकमन्तरेणान्यत्रापि तथेति न्यायादयमर्थः समर्थयितुं शक्यते। तथा हि, दारवप्रतिमाया उपादानस्य वृक्षस्य यथामूलं यथो यथापावञ्च प्रतिमाया अपि शिरःपादादिकं कुर्यादित्युपलभ्यते। तथा च बृहत्संहितायाम्
लिङ्ग वा प्रतिमा वा यथादिशं यस्मात् ।
तस्माचिह्नयितव्या दिशो द्रुमस्योद्धमथ वाऽधः ॥ (अ० ५८, ७ श्लो०) अस्यायमर्थः-लिङ्गं शिवलिङ्ग वा प्रतिमा अर्चा वा यस्माद् द्रुमवद वृक्षवत् स्थाप्या तस्माद्धेतो मस्य दिश आशाश्चिह्नयितव्याः, एवमूधिरौ भागावपि चियितव्यो। अयमर्थःद्रुमस्य यः पूर्वाभिमुखो भागः स एव प्रतिमायाः पूर्वभागः कार्यः। एवं दक्षिणो दक्षिणः ।' पश्चिमः पश्रिमः। उत्तरभाग उत्तरभाग एव कार्यः। वृक्षस्य योऽधोभागः स एव प्रतिमाया अधोभागः कार्यः। वृक्षस्य य ऊद्धभागः सोऽपि प्रतिमाया ऊद्ध भागः कार्य इति सदविवृतौ भट्टोत्पलः । बृहत्संहिताविवृतिकृद्धृतकाश्यपे च
वृक्षवत् प्रतिमा कार्या प्रागभागाद्यपलक्षिता । पादाः पादेषु कर्तव्याः शीर्षमूर्ध्वं तु कारयेत् ॥ इति ।
For Private And Personal Use Only