SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् ब्रह्मभागप्रवेशञ्च ज्ञात्वा लिङ्गस्य चोच्छ्रयम् । न्यसेद ब्रह्मशिलां विद्वान् सम्यक् कर्मशिलोपरि ॥ (अ० ५२, १४ श्लो०) इति । अत्र च कथं ब्रह्मशिलैवोपरिष्टात् स्थापनीया न कर्मशिला, कर्मशिला चाधस्तादेव स्थापनीया न ब्रह्मशिलेति प्रश्ने तयोरौत्तराधये कारणं परावरत्वमेवेत्युत्तरयिष्यन् स्थापनपरिपाटीमाह मात्स्ये अधः कूर्मशिला प्रोक्ता सदा ब्रह्मशिलाऽधिका । __उपर्य्यवस्थिता तस्या ब्रह्मभागाधिका शिला ॥ (अ० २६६, ५ श्लो०) इति। अधः कूर्मशिला प्रोक्ता (तस्याः) अधिका ब्रह्मभागाधिका शिला ब्रह्मशिला तस्या उपरि अवस्थितेत्यन्वयः, ब्रह्मभागाधिक्यमेव तस्या उपर्य्यवस्थाने हेतुरिति भावः । ___ एवञ्च मूलग्रन्थे 'कर्त्तव्यम् इति, ब्रह्मकर्मशिलैरिति चापपाठौ ; शुद्धः पाठस्तु 'कर्तव्ये ब्रह्मकर्मशिले' इति, मयमते तथा पाठदर्शनात् , कोषादौ शिलार्थकस्य 'शिल'शब्दस्यानुपलम्भादर्थासङ्गतेश्च । न हि ब्रह्मशिलया कूर्मशिलया वा किञ्चित् क्रियते अपि तु ते एव क्रियेते इति कर्मकरणयोरविवेक एवानासङ्गतिः। तथा चानयोः कर्त्तव्यतामाह-समराङ्गणसूत्रधारे याताभिधेक (यावताभ्यधिका ?) ब्रह्मशिला ब्रह्मांशतो भवेत् । ताव(त्या ? ता)भ्यधिका कार्या तस्याः कर्मशिला बुधैः ॥ इति । (अ० ७०, १४० श्लो०) अन्यत्र च "मपुंसकशिलाभिस्तु कर्त्तव्या ब्रह्मणः शिलाः" । इति ब्रह्मशिलाया षण्ढोपलकर्त्तव्यतामुपदिशन् सर्वान् संशयानपनुदति । 'प्रासादनलकुण्डादी'ति पाठोऽपि प्रामादिक इव प्रतिभाति, अन्यत्र तादृशपाठानुपलम्भादर्थासङ्गन्तेश्च । न च नालमिति पाठः निर्माल्यद्वारलक्षणस्य तस्य पुंशिलया कर्त्तव्यतोपदेशात् । तथा च काश्यपे "पुंशिलया तु कर्त्तव्यं नालं तु द्विदलान्वितम्" इति । (अ० ८० १३ श्लो०) तस्माद ग्रन्थान्तरसंवादात् 'तल' इत्येव पाठो बन्धनीमध्ये परिकल्पितः । यद्यपि 'कुड्यादी ति मयमते पाठस्तथापि साधकबाधकयुक्त्यभावाद् भवेदपि 'कुण्डादीत्य'पि पाठ इति बुद्धा पाठान्तरं नोपकल्पितम् । मयमतेऽपि 'नन्द्यावर्तशिले' इत्यपपाठ इष प्रतिभाति, द्वित्वानुपपत्तेः, 'नन्द्यावर्त्तशिला' इति शुद्धः पाठः ।। यथोक्तशिलाभिर्यथोक्तकार्याकरणे दोषमाह काश्यपः "कृतञ्च विपरीतं यत्तत् सदा कर्त्तनाशनम्" (अ० ४९, ६० श्लो०) विपरीतमिति यदुक्तं तदेव विवृण्वन्नाह शिल्परत्न उत्तरभागे स्त्रीशिलाकल्पिते लिङ्गे राष्ट्र राजा च नश्यति । पुंशिलाकल्पिते पीठे लिङ्ग पीठे च षण्डके ॥ For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy