________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 62 ] Sl. 119, 120. 'अभिनयदर्पणे 48 नन्दिकेश्वरविरचिते' प्रथमश्लोको द्विरावृत्तो वर्तते । तथा द्वितीयार्धपरिवृत्त्या श्लोकान्तरं वारैकमस्ति । लोकद्वयस्यैतस्य उद्वारेग अस्मन्मते दाक्षि गात्यमूलकत्वं 'देवतामूर्तिकरण'स्य प्रमाणीभवति, प्रकारान्तरेग ।
यथाशक्ति सर्वेषामपि अनेकेषां वा, पाठानां विचारं कृत्वा, ग्रन्यकृतो लिखनरीतिमधिकृत्य किञ्चित् वक्तव्यमस्ति । 'देवतामूर्तिप्रकरणं' सङ्कलनमात्रमेव । यथेच्छं हि ग्रन्थकृता पुस्तकान्तरस्थानां ध्यानानां परिवर्तनं परिवर्धनं च कृतम् । तन्न तन्त्रोपासना-शास्त्रादिभिरनुमोद्यते समर्थ्यते वा। तेनास्मन्मते शिल्पिनां कृते वर्णनमात्राण्येतानि, न तु ध्यानरूपाणि । तेन च सर्वथा मैतानि प्रत्यक्षरं ग्रहणयोग्यानि ।
अन्यदपि वक्तव्यमस्ति-आदर्शपुस्तकं प्रतीको वा भूयशः प्रमादबहुलोऽपपाठपूर्णश्व दृश्यते। मन्ये, द्वितीयस्य आदर्शस्याभावात् पाठोद्धारो न सम्यक्तया सिध्यति ।
148. Nandikeśvara's Abhinayadarpaņain (Ed., Manomohan Ghosh) CSS. No. 5, 81. 37 and 2+7; 36.
For Private And Personal Use Only