SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द्वितीयोऽध्यायः [ प्रतीहाराः ] तर्जन्यंशुताम्रचूड (१) दण्डै तु वामतः । तर्जनीशक्ति (२) किरणं दण्डै स्यात् पिङ्गलः परः ॥ २६ ॥ तर्जन्यौ वज्रदण्डावानन्दो वामगो ( ३ ) दधात् । तर्जनीदण्डापसव्ये चन्तकः स तु दक्षिणे ॥ २७ ॥ द्वे तर्जन्यौ पद्मदण्डे चित्रो धत्ते स वामतः । तर्जनीदण्डापसव्ये विचित्रो दक्षिणे स्थितः ॥ २८ ॥ (४) तर्जनी दण्ड सव्येन्तकः स तु दक्षिणे । द्वे तर्जन्यौ पद्मदण्डे चित्रो धत्ते स वामतः ॥ २९ ॥ किरणं दण्डं किरणाक्षः स धारयन् । तर्जनी दण्डापसव्ये प्रतिहारः सुलोचनः । चतुर्द्वारेषु संस्थाप्या दिशश्चैते प्रदक्षिणम् ॥ ३० ॥ इति सूर्यादिनवग्रहसूर्यायतनप्रतीहाराः । [ दिक्पालेषु इन्द्रः ] वरं वज्राङ्कुशौ चैव कुण्डं धत्ते करैस्तु यः । गजारूढः सहस्राक्ष इन्द्रः पूर्वदिशाधिपः ॥ ३१ ॥ [ वह्निः ] वरदः शक्तिहस्तश्च समृणालकमण्डलुः । ज्वालापुञ्ज निभो देवो मेषारूढो हुताशनः ॥ ३२ ॥ [ यमः ] लेखिनीपुस्तकं धत्ते (५) कुर्कुटं दण्डमेव च । महामहिषमारूढो यमः कृष्णाङ्ग ईरितः ॥ ३३ ॥ [ नैर्ऋतः ] खड्गञ्च खेटकं हस्तैः (६) कार्तिकां वैरिमस्तकः । दंष्ट्राकरालवदनः श्वानारूढश्च राक्षसः || ३४ || Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ११ (३) 'दधत् ' (१) '- दण्डैर्दण्डी' इति स्यात् । (२) '-किरणदण्डैः' इति स्यात् । इति स्यात् । ( ४ ) पद्यमिदं सम्पातायातं स्यात् । (५) 'कुक्कुटं' इति स्यात् । (६) 'कर्तिक वैरिमस्तकम्' इति स्यात् ।
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy