________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम् खड्गं डमरुखेटपाशं बिभ्रती च करोत्तमैः। भ्रामणी च तदा नाम भ्रामयेद् दुष्टचेतसः ॥ ५५ ॥
[इति भ्रमणी] अक्षसूत्रं तथा वज्र घण्टापात्रं तथोत्तमम् ।। सर्वमङ्ग(ल ? ला) मङ्गल्या सर्वविघ्नविनाशिनी ॥५६॥
[इति सर्वमङ्गला] दण्डत्रिशूल खट्टाङ्गं पानपात्रं च विनती। रेवती च तदा नाम सर्वशान्तिप्रदायिनी ॥५७ ॥
[इति रेवती कमण्डलु खड्गडमरूं पानपात्रं तथा शुभम् । हरसिद्धिस्तदा नाम सर्वस्य सिद्धिहेतवे ॥ ५८ ॥
[इति हरसिद्धिः]
इति नवदुर्गाः। क्षेत्रपालो विधातव्यो दिग्बासा घण्टभूषितः।। कर्तिकां डमरूं बिभ्रदक्षिणे तु करद्वये ॥ ५६ ॥ वामे शूलं कपालं च मुण्डमालोपवीतकः। करोटि(नी? नि)करोदारमालान्थितशेखरः ॥ ६॥
इति क्षेत्रपालः । ५५। उद्देशश्लोके 'भ्रमणी'ति वर्तते अन च भ्रामणीति दृश्यते, कतरदेतयोः परिवर्तनमहतीत्यनिश्चिन्वानरस्माभिः क्वापि न व्यापारितो हस्तः, परं प्रथमपरित्यागे मानाभावं मन्यमानैः पुष्पिकायां 'भ्रमणीति विहितम् ।
५९-६० । क्षेत्रपालं लक्षयति-क्षेत्रपाल इति। शिल्परोऽयमादौ सात्त्विकादिभेदेन त्रिधा भिद्यते सात्त्विका द्विभुजचतुर्भुजत्वेन पुनर्द्विधेति साकल्येन चतुर्विधः । रूपमण्डने पुनरेक एव चतुर्भुजः। तथाच
क्षेत्रपालो विधातव्यो दिग्वासा घण्टभूषितः ।। (कात्तिकां ? कतिका ) डम बिभ्रदक्षिणे तु करद्वये । वामे शुलं कपालञ्च मुण्डमालोपवीतकम् । करोति(?)कटितोदारसर्पग्रन्धितशेखरः ॥ इति (अ० ५, श्लो०७४-७५) ।
For Private And Personal Use Only