SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ देवतामूर्तिप्रकरणम् मातृभिर्मातरस्थानं कारयेदक्षिणां दिशम् । सौम्ये शान्तिग्रहं कुर्या(द?दय)क्षाधीशञ्च पश्चिमे ॥ १५४ ॥ ___ इत्येकद्वारशिवायतनम्। वामे स्नानगृहं कुर्याद (यशो?)द्वारश्च दक्षिणे। मध्ये रुद्रः प्रकर्त(व्यव्यो) मातृस्थानश्च दक्षिणे ॥१५५॥ (वामावामे) देवी महालक्ष्मीरुमा वै भैरवस्तथा। ब्रह्मा विष्णुस्तथा रुद्रः पृष्ठदेशे तु कारयेत् ॥ १५६ ॥ चन्द्रादित्यौ स्थितौ कर्णे आग्नेय्यां स्कन्दमेव च। ईशाने विघ्नराजं तु धम्रमीशानगोचरे ॥ १५७ ॥ इति चतुर्मुखशिवायतनम् । मातुलिङ्गश्च नागेन्द्र(?) डमरु' चाक्षसूत्रकम् । नन्दी मुकुटशोभाढ्यः सर्वाभरणभूषितः ॥ १५८ ॥ खटाङ्गञ्च कपालश्च डमरु बीजपूरकम्। दंष्ट्राकरालवदनं महाकालन्तु दक्षिणे ॥१५॥ इति पूर्वप्रतीहारौ। तर्जनी च त्रिशूलञ्च डमरूं गजमेव च। (हरेश्चाहेरम्बो) वामभागे स्याद् भृङ्गो दक्षिणतः शृणु ॥१६०॥ गजं डमरुखटाङ्गं तर्जनीवामहस्तकः । उभौ च दक्षिणे द्वारे भृङ्गी दक्षिणतः शुभः ॥१६१॥ इति दक्षिणप्रतीहारौ। त्रिशूलं डमरुञ्चैव खदाङ्गश्च कपालकम। डमरुञ्च तथा दण्डं बीजपूरं तथैव हि ॥१६२॥ इत्यर्द्ध प्राप्यते, युक्तञ्चैतत् ; इह लेखकप्रमादात् त्रुटितम् । सम्मुखमिति चतुर्वक्तं एकं वक्त सम्मुख स्यात्, त्रिवक्त लिङ्गो पृष्ठतः पृष्ठदेशे वक्तू न हि कारयेदिति शेषः । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy