________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
षष्ठोऽध्यायः हस्तादिपादवृद्धया च (भयलिं ? त्रयस्त्रिंशत् क्रमेण वै। लिङ्गानि (न च ? नव) हस्तान्तं
७०। पूर्वोक्तानां नवानां लिङ्गानां निर्माणक्रमेण त्रयस्त्रिंशत्त्वमाह-हस्तादीति । 'हस्तहीनं न कारयेदि'त्युक्तत्वादेकहस्तमारभ्य एकहस्तं सपादहस्तं सार्द्धहस्तं पादोनद्विहस्तमित्यादिक्रमेण पादशो वद्धितानि लिङ्गानि नवहस्तं यावत् त्रयस्त्रिंशत्संख्यकानि भवन्तीत्यर्थः । रूपमण्डने
हस्सादि नवहस्तान्तं शैलं लिङ्ग विधीयते ।।
हस्तवृद्वया नवैव स्युर्मध्ये वृद्धिर्यदृच्छया ॥ (अ० ४, श्लो० ५३) इति हस्तादिनवहस्तान्तं लिङ्गमानं नियम्य या चेह पादवृद्धिरुक्ता तत्रौदासीन्येन यादृच्छिकवृद्धिस्तत्र प्रतिपादितेति ज्ञेयम् । शिल्परने पुनः
(सप्त ? एक)हस्तोच्चमारभ्य पादवृद्धा तु पूर्ववत् । श्रेष्ठानि भवलिङ्गानां त्रयस्त्रिंशदुदाहृतम् ॥
(उ० अ० २, श्लो० २४-२५) इत्यनेन प्रकृता पादवृद्धिः समर्थिता दृश्यते । लिङ्गमानं तावत् नवधा भवेत्। तथाच
लिङ्ग गर्भगृह(१)द्वार(२) स्तम्भा(३)धिष्ठान(४)किष्कुभिः (१)। ताल(६)मानाङ्गलै(७)श्चापि तथा मात्राङ्गुलै (८)रपि ॥ पजमामोचमानेन (९) चैवं नवविध स्मृतम् ॥ इति ।
(शिल्प० उ० अ० २, श्लो० १३)। कचित् सप्तधेत्यपि। तथाचगर्भगेहप्रमाणञ्च द्वारमानं तथैव च। स्तम्भञ्च कालमानञ्च हस्ततालाङ्गुल तथा ॥
लिङ्गमानं ध्रुवं सप्त.........। (काभ्यप० अ० ४९, श्लो० ६९-७०) इति । इह तु विधा लिङ्गमानमुक्तम् । तत्र मानाङ्गलेन पूर्वमुक्तं प्रासादगर्भमानाभ्यामिदानीमुच्यते। प्रासादमानेन लिङ्गमानकथनख्यायमभिप्रायः-एवं हि तन्त्रयुक्त्या लिङ्गमानं लिङ्गोचितप्रासादमानञ्चोक्तं भवतीति । तदुक्तं मातस्ये
प्रासादस्य प्रमाणेन लिङ्गमानं विधीयते । लिङ्गमानेन वा विद्यात् प्रासादं शुभलक्षणम् ॥ इति ।
(मत्स्य ० अ० २६३, श्लो० २)।
For Private And Personal Use Only