SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् गदाखड्(गं ? गौ) तथा चक्रं वज्राङ्कुश(क ? श)राणि वै। शङ्खखेटौ धनुः पद्मं दण्डपाशावनन्तकः ॥ १० ॥ नरं तथा नारसिंहं (तृतीयंस्त्रीमुखं) शूकराननम् । तेजःपुञ्जोद्भवं कार्यमनन्तं नाम नामतः॥ १०१ ॥ इत्यनन्तः। त्रैलोक्यमोहनं वक्ष्ये संसारमोहकारकम् । षोडशैव भुजास्तस्य ताारूढं महाबलम् ॥ १०२ ॥ गदाचक्राङ्कुशान्येव बाणशक्तिसुदर्शनम् । वरदं करमुद्धृत्य शस्त्रा वै दक्षि(णस्त?णे त)था ॥ १०३ ॥ मुद्गरः पाशशाङ्गों तु शङ्ख(क) पद्मकमण्ड(लु ? लू)। शृङ्गी च वामहस्ते स्याद् योगमुद्रा करद्व(यम् ? ये) ॥१०॥ नरश्च नारसिंहाख्यं शूकरं कपिलाननम्। द्विशत्त्यष्टशक्तियुतं कुर्यात् त्रैलोक्यमोहनम् ॥ १०५ ॥ इति त्रैलोक्यमोहनः । हस्तद्वये योगमुद्रा वैनतेयोपरि स्थितः । क्रमान्नरनृसिंहस्त्रीवराहमुखवन्मुखः ॥ ( ३ अ० ५५-५८ श्लो०) इत्यस्य विश्वरूपस्य चतुर्मुखत्वं वैकुण्ठवत् प्रकारभेदञ्च प्रतिपादयति। मूले तुङ्गमित्यत्र लुङ्गमिति स्यात् , नामैकदेशे नाम इति मातुलुङ्गमित्यर्थः । १०१। अनापि विश्वरूपवद् व्यवस्था। यद्वा उभयत्रापि 'तृतीयमिति 'स्त्रीमुखमि'त्यस्थानुकर्षणार्थम् , एवञ्च 'स्त्रीमुखम्' इति बन्धनीमध्ये पाठान्तरकल्पनं मुखार्थम् । रूपमण्डने मुखस्य विवरणं नास्ति । रूपमण्डनेऽनन्तलक्षणम्-(३ अ० ५८-५९ श्लो०) अनन्तोऽनन्तरूपस्तु हस्तैर्दादशभिर्युतः । अनन्तशक्तिसंवीतो गरुडस्थश्चतुर्मुखः ॥ दक्षिणे तु गदाखड्गौ चक्र वज्राङ्कशे शरः। शङ्खः खेट धनुः पद्म दण्डपाशौ च वामतः ॥ इति . १०२-१०५ । अत्र त्रैलोक्यमोहनस्य षोडशानां भुजानां चतुर्दशसु यथोक्तान्यस्त्राणि करद्वये योगमुद्रेति वर्तुलार्थः । शृङ्गी योगेन पर्वतमभिधत्ते । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy