________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः कुब्जाश्च पञ्चभिस्तालैरुपविष्टो जनस्तथा । उपविष्टाः प्रकर्तव्या ब्रह्मविष्णुशिवा वृषः॥५॥ शूकरं पञ्चतालैश्च षट्तालं स्याद् विनायकम् । मध्यमं शूकरं ज्ञेयं वृषभश्च तथैव हि। मनुजाः सप्तभिस्तालैर्वृषभं शूकरन्तथा ॥ ६ ॥ अष्टाभिः पार्वती प्रोक्ता मातरश्च तथैव हि। दुर्गा लीला महालक्ष्मील(ल?)क्ष्मीर्या तु सरस्वती ॥७॥ कालिन्दी चैव सावित्री नदा(नन्दा?) पद्मावती तथा। कात्यायनी समाख्याता भगवत्यष्टकाल(ताल)का ॥८॥ नवतालैर्भवेद् विष्णुब्रह्मात्मा देवतास्तथा।
कर्मणि प्रत्ययस्यैव स्वारमिकत्वेन 'कीर्तिमुखम्तालमुखो' इति पाठस्यैव भाव्यत्वात् । एवमिहाहमहमिकयैव बिन्दुविसर्गयोर्व्यत्ययस्तत्र तत्र समुलसन् पाठकैः स्वयं विचार्यः । रूपमण्डने तालमधिकृत्य-'पासवनमेकभागे द्वौ पक्षी कुञ्जरास्त्रयः' इत्येतत्समानार्थं पद्यमाह।
अन कियनिस्ताले के के कर्त्तव्या इत्यत्र शिल्पशास्त्रकृतां बहवो मतभेदा दृश्यन्ते, ते व प्रभूतस्थानसव्यपेक्षा इति सर्वमनुवृत्याष्टतालत एकतालान्ता विलोमेन काश्यपशिल्पादुद्धियन्ते, एतेषामेवात्राधिक्येनोपयोगित्वात् । अत्र चादर्शप्राप्तमशुद्ध पाठमपहाय सम्पादकैः कृतशुद्धयः पाठा उद्भियन्ते
अष्टतालेन साध्यांस्तु पिशाचाः सप्तमेन तु । रसतालेन कुछजास्तु कारयेद्देशिकोत्तमः ॥ पञ्चतालोक्तमानेन वित्तेशं कारयेद बुधः । तन्मध्यमाधमेनैव सर्वभूतगणान् कुरु ॥ बालन्तु वेदतालेन त्रितालेनैव कारयेत् ।
द्वितालं किन्नरञ्चैव एकतालन्तु कूर्मकम् ॥ इति । (अ० ५०, ८७-८९ श्लो०) - ६। मध्यममिति । प्रथमाढे पञ्चतालकर्त्तव्यत्वेन यः शूकर उद्दिष्टः स मध्यम इति शेयः नोत्तमो नापि वाऽधमः। एवं तृतीयार्द्ध सप्ततालकर्त्तव्यत्वेन यो वृषभ उद्दिष्टः सोऽपि मध्यम एवेत्यर्थः। सप्ततालकर्त्तव्यस्तृतीयशूकरश्न मध्यमेतर इति व्याख्येयम् , अन्यथा पौनरुक्त्यापत्तेः । वृषभशूकरयोः साप्ततालिकत्वकथनं मतान्तरेणेति ज्ञेयम् ।
For Private And Personal Use Only