________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम् (उत्पातविशेषस्य प्राणिविशेष फलदायकत्वम् ) ऋषिधर्मपितृब्रह्मप्रोद्भूतवैकृतं द्विजातीनाम् । यद्रुद्रलोकपालोद्भवं पशूनामनिष्टं तत् ॥५०॥ गुरुसितशनैश्चरोत्थं पुरोधसां विष्णुजञ्च लोकानाम् । स्कन्दविशाखसमुत्थं माङ्गलिकानां (कं न?) नरेन्द्राणाम्॥५१॥ वेदव्यासे मन्त्रिणि विनायके वैकृतं चमूनाथे। धातरि सविश्वकर्मणि लोकाभावाय निर्दिष्टम् ॥५२॥ देवकुमारकुमारीवनिताप्रख्येषु (प्रैष्येषु?) वैकृतं यत् स्यात् । तत्रभ्यतेः (तन्नरपतेः?) कुमारकुमारिकास्त्री
परिजनाभा(ना?)म् ॥५३॥ रतापिशाचगुह्यकनागानामेव (मेवमेव?) निर्दिष्टम् ।
द्वययोजककाष्ठस्य , केतोश्च भङ्गाः स्फोटनानि पतनानि वा। तथा सम्पर्यासनम् एतेषामेव विपसिः अक्षस्थाने युगस्य युगस्थाने चक्रस्येत्यादिरूपं विपरिवर्तनमित्यर्थः, सादनं विशरणं सहसैव जर्जरीभावः, सङ्ग आसञ्जनं गमनप्रतिबन्धकीभूतः परस्परसंश्लेषः । एते न देशस्य नृपस्य च शुभदाः। दैवतयात्रेति पाठो बृहत्संहितायाम् (अ० ४५, ९ श्लो०)।
५०। पूर्व लिङ्गार्चायतनानामित्युक्तम्, 'नर्तनं जल्पनं हास्यम्' इत्यादिना च देव_कृते सामान्यतो 'भयं भवेद्' इति चोक्तम् । सम्प्रति कस्यार्चाया वैकृते कस्यानिष्टमिति विशिष्य वक्तुमाह-ऋषिधर्मत्यादि । धर्मो देवविशेषः, पितरः प्रसिद्धा भूतजनाः कुत्रचित् लेपमयाः क्रियन्ते ; एतेषामर्चासु यत् प्रोदभूतं वैकृतं तद् द्विजातीनामनिष्टम् अशुभप्रदम् ।
यच रुद्रस्य लोकपालानामिन्द्रादीनां च वैकृतं तत् पशूनां राज्ञो वाहनीभूतानामनिष्टमित्यर्थः।
५१। द्विजातीनामित्युक्तम् , तत्रापि पुरोधसां विशेषमाह-गुर्विति। सितः शुक्रः । एतेषु यद् बैकृतं तत् पुरोधसामित्यर्थः । स्कन्दः कात्तिकेयः, विशाखो देवविशेषः । एतयोरुदभूतं वैकृतं नरेन्द्राणां न माङ्गलिकम् ।
५२। वेदव्यासे वैकृत मन्त्रिणि, विनायके वैकृतं चमूनाथे राज्ञः सेनापतौ अनिष्टजनकम् । ५३। देवकुमारेत्यादि। देवकुमारे यद् वैकृतं तन्नुपकुमारे, एवं कुमारीवनिताप्रैष्येष्वपि
बोध्यम् ।
For Private And Personal Use Only