________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम्
[ तत्र विशेषः] स्वदेशध्वंसस्फोटे भवेत्तथा... ... ... । स्थानाञ्चलने भङ्गं देशस्य विनिर्दिशेत् प्राज्ञः ॥४४॥
. [अर्चा वैकृतं तत्फलञ्च] नर्तनं जल्पनं हास्यमुन्मीलननिमीलने। देवा यत्र प्रकुर्वन्ति तत्र विद्यान्महद् भयम् ॥ ४५ ॥ रोदने नर्तने हास्ये देवतानां प्रसर्पणे । महद् भयं विजानीयात् षण्मासत्रि(सात्ति?)गुणं परम् ॥४६॥ धमज्वाला रजो भस्म यदा मुञ्चन्ति देवताः। राजा तदा च म्रियते प्रसूते च धनक्षयम् ॥४७॥
४४। 'नाशाय नरेशदेशानामि'त्युक्तम् , इदानीं केन कस्य नाश इति विषयविभागमाहस्वदेशेत्यादि। स्फोटे भङ्गे स्वदेशध्वंसो भवेत् । अन लेखकप्रमादाद ग्रन्थस्य कियांचन भागः पतितः।
४५। नर्तनमिति । उन्मीलनं नेत्रप्रसारणम्, निमीलनं नेत्रसङ्कोचः, यद्वा अङ्गानाम् आकुञ्चनप्रसारणे।
४६। रोदन इति । षण्मासत्रिगुणमिति । शान्तौ अकृतायां षण्मासात् परं भयं त्रिगुणं भवेदित्यर्थः, तथा च षण्मासात् त्रिगुण मिति शुद्धः पाठः।
एतचिन्त्यम्, एतेषामुत्पातानाम् अष्टसु मासेष्वतीतेषु फलपाकश्रवणात् कथं षट्स मासेष्वतीतेष्वेव भयानां बैगुण्यं सम्भवदुक्तिकं स्यात्। तथा च बृहत्संहितायाम्
___"मासैश्चाप्यष्टाभिः सर्वेषामेव फलपाकः" । इति । (अ० ४५, १४ श्लो०) एवञ्च इदमत्र कथञ्चित् समाधानम्-अत्र सङ्कोचवृत्त्या सर्वशब्दस्य देवता कृतोत्पातेतरपरत्वाभ्युपगमात् तथाविधोत्पातस्य सद्यःफलदत्वेन 'षण्मासात् त्रिगुणं परमिति सङ्गच्छते ।
अनेदं श्लोकद्वयं प्रायेण समानार्थकमिति स्थणाभिखननन्यायेन वा, पूर्वत्र भयस्य देशविषयकत्वाङ्गीकारादुत्तरत्र च राजविषयकत्वाङ्गीकाराद्वा कथञ्चित् पौनरुक्त्यनिरासः कर्तव्यः ।
४७। धूमज्वालामिति । धूमं ज्वालाञ्चेत्यर्थः । ज्वाला चाग्निशिखा। तदेतत् सर्व सविशेषमाह मत्स्यपुराणे
For Private And Personal Use Only