________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 488 ] The author's Guruparamparā
श्रीवर्धमानस्य जिनस्य जातो मेदार्यनामा दशमो गणेशः । श्रीपूर्णतल्लां कितदेहसंस्थो यत्राभवत् स्वर्गसमा धरित्री ।। कल्योर्वरिहतुल्याश्च हारकेयूरमण्डिताः । जातास्ताटास्ततोजातः संखोऽसौ लाटवागड़ ॥ श्रीधर्मसेनोऽजनि तत्रसंघे दिगंबरः श्वेततरैर्गुणैः स्वः । व्याख्या सुदंतांशुभिरुल्लासद्भिर्वस्त्रावृतो यः प्रतिभासते स्म ।। भंजन्वादीन्द्रमानं पुरि पुरि नितरं प्रोक्त++च्यमानं तन्वन् शास्त्रार्थदानं रुचिरुचिरुचिरं सर्वथा घ्नन्ति दानम् । विद्यादशोपमानं दिशि दिशि विकिरन् स्वयशोपोसमानम् तस्मात् श्रीशान्तिषणः समजनि सुगुरुः पापधूलीसमीरः ।। यत्रास्पदं विदधती परमागमश्री रात्मन्यमन्यत सतीत्वमिदं त्वचित्रम् । वृद्धा च संततमनेकजनोपभोग्या श्रीगोपसेनगुरुराविरभूत् स तस्मात् ॥ उत्पत्तिस्तपसा पदं च यशसा मन्यो रविस्तेजसामादिः स वचसां विधिः सुतरसामासीन्निधिः श्रेयसां । आवासो गुणिनां पिता च सखिनां माता च धर्मात्मनां न ज्ञातः कलिना जगत्सुबलिना श्रीभावसेनस्ततः ।। ख्यातस्ततः श्रीजयसेननामा जातस्तपश्रीक्षितदुः कृतौधः । सत्तर्कविद्यार्णवपारदृश्वा विश्वासगेहं करुणास्पदीनाम् ।। आचार्यः प्रशमैकपात्र मनसः प्रज्ञादिभिः स्वैर्गुणैः पट्टे श्रीजयसेननाम सुगुरोः श्रीब्रह्मसेनोऽजनि । सज्जल्पाम्बुधिमध्यमग्नवपुषः शश्वद्विकल्पाथिभिः जल्पाकाः परवादिनोत्र विकला: के के न जाताः क्षितौ ।। तस्मादजायतगनी गुणिनां गरिष्टो भव्यांबुज प्रतिविकाशन पाबन्धः । कंदर्पदर्पदलने भुवनैकमल्लो विख्यातकीर्तिरवनौ कविवीरसेनः ।। श्रीवीरसेनस्य गुणादिकेनो जातः सुशिष्यो गुणिनां विशेष्यः । शिष्यस्तदीयोजनिचारुचित्तः सदृष्टिवनेन नरेन्द्रसेनः ।। गुणसेनो दयसेनो जयसेनाः संबभूवुरतिचर्याः । • तेषां श्रीगुणसेनः सूरिजर्जातः कलाभूरिः ।।
For Private and Personal Use Only