SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 483] Bhandarkar Report, 1813--84, contains a long notice of this work in preface p. 91 to 102 and extracts from the text in Präkrita with chāyā io appendix KKK. pp. 379 to 390. The present manuscript contains the text in Prāksta and a vstti comm. in Sanskrit. The comm. is anonymous. Mangalacarana of the commentary. नमः परम-चैतन्यस्वात्मोथ सुखसम्पदे । परमागमसाराय सिद्धाय परमेष्ठिने । The scope of the commentary अथ प्रवचनसारव्याख्यायां मध्यमरुचि शिष्यप्रबोधनार्थायां मुख्यगौणरूपेण अन्तस्तत्त्व-बहिस्तत्त्व-प्रज्ञान-समर्थायां च प्रथमत एकोत्तरशतगाथाभिर्ज्ञानाधिकारस्तदनन्तरं त्रयोदशाधिक-शतगाथाभिः दर्शनाधिकारस्ततश्च सप्तनवतिगाथाभिश्चारित्राधिकारश्चेति समुदायेन एकादशाधिकत्रिशतप्रणितस्तत्र। सम्यग्ज्ञानदर्शन चारित्ररूपेण महाधिकारत्रयं भवति । अथवा टीकाभिप्रायेण तु सम्यग्ज्ञानज्ञेय चारित्राधिकारचूलिकारूपेण अधिकारत्रयं तत्र अधिकारनये प्रथमतस्तावत् ज्ञानाभिधाने महाधिकारमध्ये द्वासप्ततिगाथापर्यन्तं शुद्धोपयोगाधिकारः कथ्यते। तासु द्वासप्ततिगाथासु मध्ये एस"सुरासुर मणुसिंदवंदियं" इमां गाथामादिं कृत्वा पाठक्रमेण चतुर्दशगाथापर्यन्तं पीठिका तदनन्तरं सप्तगाथा पर्यन्तं सामान्येन सर्वज्ञसिद्धिस्तदनन्तरं त्रयस्त्रिशद्गाथापर्यन्तं ज्ञानप्रपञ्चस्ततश्चाष्टादशगाथापर्यन्तं सुख प्रपञ्चश्चेत्यन्तराधिकारचतुष्टयेन शुद्धोपयोगाधिकारो भवति । एवं पञ्चविंशति गाथापर्यन्तं ज्ञानकण्डिकाचतुष्टय प्रतिपादकनामा द्वितीयोऽधिकारश्चेत्यधिकारद्वयन तदनन्तरं स्वतन्त्रगाथा चतुष्टयेन चकोत्तरशतगाथाभि: प्रथममहाधिकारे समुदायपातनिका ज्ञातव्या । इदानीं प्रथमपातनिकाभिप्रायेण प्रथमतः पीठिका व्याख्यानं क्रियते । तत्र पञ्चस्थलानि भवन्ति । तेष्वादी नमस्कार मुख्यत्वेन गाथापञ्चक तदनन्तरं चारित्रमुख्यत्वेन संपज्जाइणिव्वाणं इति प्रभृति गाथात्रयं । अथ शुभाशुभाशुद्धोपयोगत्रयसूचनमुख्यत्वेन "जीवा परिणयदि"गाथा सूत्रद्वयम् । अथ तत्फलकथनमुख्यतया "धम्मेण चारिणदुप्पा" इति प्रभृति सूत्रद्वयं । अथ शुद्धोपयोगे ध्यातः पुरुषस्य प्रोत्साहनार्थं शुद्धोपयोग फलदर्शनार्थं च प्रथमगाथाशुद्धोपयोगपुरुषलक्षणकथनेन द्वितीया चेति “अइसयमादसमुखं"इत्यादि गाथाद्वयं एवं पीठिकाभिधान प्रथमान्तराधिकारस्थलपञ्चकेन चतुर्दशगाथाभिः समुदाय पातनिका । तद् यथाअथ कश्चिदासन्नभव्यः शिवकुमारनामा स्वसंवित्ति समुत्पन्नपरमानन्दैकलक्षण सुखामृत विपरीत चतुर्गति संसारदुःखभयभीतः समुत्पन्नपरमभेदविज्ञान प्रकाशातिशय समर्थतयकान्तनिराकृतदुराग्रहः परित्यक्त-समस्त-शत्रुमित्रादि-पक्षपातेन अत्यन्तमध्यस्थ कृत्वा धर्मार्थकामेभ्यः सारभूतां अत्यन्तात्महितां अविनश्वरां पञ्चपरमेष्ठिप्रसादोत्पन्नां मुक्तिश्रियम् उपादेयत्वेन स्वीकुर्वाणः श्रीवर्धमानस्वामितीर्थकरपरमदेवप्रमुखानवगत पञ्चपरमेष्ठिनो द्रव्यभावनमस्काराभ्यां प्रणम्य परमचारित्रमाश्रयामीति प्रतिज्ञानं करोति पंच कलं “ससुरासुरमणुसिंदवंदिय" । HALHHHHHHHH For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy