________________
( 895 ) अनाग्रहश्च सर्वत्र धर्माधर्माप्रदर्शनं । विवेकोयं समाख्यातः धैर्य तु विनिरूप्यते ॥ ५॥ त्रिदुःखसहने धैर्यमामृतेः सर्वतः सदा । तक्रवद्देहबद्भाव्यं जड़वद्रोपभार्यवत् ॥ ६ ॥ प्रतीकारो यद्गुच्छातः सिद्धश्चेन्नाग्रही भवेत् । भार्यादीनां तथान्येषामसतश्चाक्रमं सहेत् ॥ ७॥ स्वयमिन्द्रिय कार्याणि कार्यवान् मनसा त्यजेत् । अशूरेणापि कर्त्तव्यं स्वस्य सामर्थ्य भावना ॥ ८॥ अशक्ये हरिरेवास्ति सर्वमाश्रयितो भवेत् । एतत् सहनमत्रोक्तमाश्रयोतो निरूप्यते ॥ ६॥ ऐहिके परलोके च सर्वत्र शरणं हरिः । दुःखहानी तथा पापे भये कामार्थपूरणे ॥ १० ॥ भक्तद्रोहे भक्त्यभावे भक्तस्यातिकमे कृते। अशक्ये वा सुशक्ये वा सर्वथा शरणं हरिः ॥ ११ ॥ अहंकार कृते चैव पोष्यपोषणरक्षणे । पोष्यातिक्रमणे चैव तथान्तेवास्यतिक्रमे ॥ १२ ॥ अलौकिकमनःसिद्धौ सर्वार्थे शरणं हरिः । एवं चित्ते सदा भाव्यं वाचा च परिकीर्तयेत् ॥ १३ ॥ अन्यस्य भजनं तत्र स्वतो गमनमेव (च)। प्रार्थनाकार्यमाञपि तथान्यत्र विवर्जयेत् ॥ १४ ॥ अविश्वासो न कर्त्तव्यः सर्वथा वाधकस्तु सः । ब्रह्मास्त्रचातको भाव्यौ प्राप्त सेवेत निर्ममः ॥१५॥ यथाकथञ्चित् कार्याणि कुर्य्यादुच्चावचान्यपि । किं वा प्रोक्तेन बहुना शरणं भावयेद्धरिं ॥ १३ ॥ पधमाश्रयणं प्रोक्तं सर्वेषां सर्वदा हितं। . कलौ भक्त्यादिमार्गा हि दुःसाध्या इति मे मतिः ॥ १७ ।