SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ ( 878 ) तदर्थ प्रक्रिया+चित् पुराणेऽपि निरूपिता। ऋषिभिर्बहुधा प्रोक्ता फलमेकमबाह्यतः ॥ ८ ॥ अत्यागे योगमार्गे हि त्यागोऽपि मनसैव हि । यमादयस्तु कर्त्तव्याः सिद्ध योगे कृतार्थता ॥ ६ ॥ पराश्रयेण मोक्षस्तु द्विधा सोऽपि निरूप्यते । ब्रह्मा ब्राह्मणतां यातस्तद्र पेण सुषेव्यते ॥ १० ॥ ते सर्वार्था न चायन शास्त्रं किंचिदुदीरितम् । अतः शिवश्च विष्णुश्च जगतां हितकारकौ ॥ ११ ॥ . वस्तुनः स्थितिसंहारौ काय्यौं शास्त्रप्रवर्त्तको । ब्रह्मैव तादृशं यस्मात् सर्वात्मकतयोदितौ ॥ १२ ॥ निर्दोषपूर्णगुणता ततः शास्त्रे तयोः कृता । भोगमोक्षफले दातुं शक्ती द्वावपि यद्यपि ॥१३॥ भोगः शिवेन मोक्षस्तु विष्णुनेति विनिश्चयः । लोकेऽपि यत् प्रभुर्भुङ्क्ते तन्न यच्छति कर्हिचित् ॥ १४ ॥ अतिप्रियाय तदपि दीयते क्वचिदेव हि । नियतार्थप्रदानेन तदीयानां तदाश्रयः ॥ १५ ॥ प्रत्येकं साधनं चैतत् द्वितीयार्थे महान् श्रमः । जीवाः स्वभावतो दुष्टा दोषाभावाय सर्वदा ॥ १३॥ मोक्षस्तु विष्णोः सुलभो भोगश्च शिवतस्तथा। समर्पणेनात्मनो हि तदीयत्वं भवेद् ध्रुघम् ॥ १७॥ अतदीयतया चापि केवलं स्यात् समाश्रितः । तदाश्रयतदीयत्वबुद्धय किञ्चित् सदाचरेत् ॥ १८॥ स्वधर्ममनुतिष्ठन् वै भवेद्वैगुण्यमन्यथा । इत्येवं कथितं सर्वं नैतज्ज्ञाने भ्रमः पुनः ॥ १६ ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy