SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ ( 877 ) अतः कदाचित् कृष्णस्य भजनं लभते न सः। फलाभावादेवसृष्टियर्था भवति सर्वथा ॥ ७ ॥ दैवी सम्पद् विमोक्षायेत्युक्तिस्तहि विरुध्यते । अतः करुणया बालबोधमग्निश्चकार हि ॥ ८॥ अष्टादशानामत्र श्रीभगवद्वचसामपि । पुराणानां स्मृतीनां च प्रामाण्यज्ञाफ्नाय च ॥ ६ ॥ तावन्तः कथिताः श्लोका आधेनोपक्रमस्तथा। अन्तार्द्धनोपसंहारस्तेन सार्द्धमूनविंशतिः ॥ १० ॥ Text. नत्वा हरिं सदानन्दं सर्वसिद्धान्तसंग्रहं । बालप्रबोधनार्थाय वदानि सुविनिश्चितम् ॥१॥ धम्मर्थिकाममोक्षाख्याश्चत्वारोऽर्था मनीषिणाम् । जीवेश्वरविचारेण द्विधा ते हि विचारिताः ॥ २॥ अलौकिकास्तु वेदोक्ताः साध्यसाधनसंयुताः। लौकिका ऋषिभिः प्रोक्तास्तथैवेश्वरशिक्षया ॥३॥ लौकिकांस्तु प्रवक्ष्यामि वेदादाद्या यतः स्थिताः । धर्मशास्त्राणि नीतिश्च कामशास्त्राणि व क्रमात् ॥ ४॥ मोक्षे चत्वारि शास्त्राणि लौकिके परतः स्वतः। त्रिवर्गसाधनानीति न तन्निर्णय उच्यते ॥५॥ द्विधा द्वे द्वे स्वतस्तत्र सांख्ययोगी प्रकीर्तितौ । त्यागात्यागविभागेन सांख्ययोगः प्रकीर्तितः ॥ ६ ॥ अहंताममतानाशो सर्वथा निरहंकृतौ । स्वरूपस्थो यदा जीपः कृतार्थः स निगद्यते॥७॥ .
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy