SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ ( 857 ) बीजदाढयप्रकारस्तु गृहे स्थित्वा स्वधर्मतः । अव्यावृत्तो भजेत् कृष्णं प्रज्ञया श्रवणादिभिः ॥२॥ व्यावृत्तोऽपि हरौ चित्तं श्रवणादौ यतेत् सदा । ततः प्रेम तथासक्तिर्व्यसनं च यदा भवेत् ॥ ३॥ बीजं तदुच्यते शास्त्रं दृढ़ यन्नापि नश्यति । स्नेहाद्रागविनाशः स्यादासक्त्या स्याद् गृहे रुचिः ॥४॥ गृहस्थानां बाधकत्वमनात्मत्वं च भासते । तदा स्याद्व्यसनं कृष्णे कृतार्था स्यात्तथैव हि ॥५॥ तादृशस्यापि सततं गृहस्थानं विनाशकम् । त्यागं कृत्वा यतेद्वस्तु तदार्थार्थकमानसः॥ ६॥ लभते सुदृढ़ां भक्तिं सर्वतोऽप्यधिको पराम्। त्यागे बाधकमायुष्टुं दुःसंसर्गात्तथाप्ततः ॥७॥ अतः स्थेयं हरिस्थाने तदीयैः सह तत्परैः। अदूरे विप्रकर्षे वा यथा चित्तं न दूष्यति ॥ ८॥ सेवायां वा कथायां वा यस्य भक्तिर्दृढा भवेत्। यावजीवं तस्य (ना?)शो न स्थायीति मतिर्मम ॥ ६॥ बाधसम्भावनायां तु नैकान्ते वास इष्यते। हरिस्तु सर्वतो रक्षा करिष्यति न संशयः ॥ १०॥ इत्येवं भगवच्छास्त्रं गूढतत्त्वं निरूपितम् । य एतत् समधीयीत तस्यापि स्यादृढ़ा रतिः ॥ ११ ॥ The Mangalācaraṇa of the commentry : नत्वा स्वाचार्यपादाब्जकृपामधुसुपूरितम् । तस्य रागारक्तबुद्धया व्याख्यास्ये भक्तिद्धिनीम् ॥ The author and the object of the commentary, Leaf 5B. पितृपादनखालोकप्रकाशितधिया मया। स्वाचार्यचरणाख्येन विवृता भक्तिवर्धिनी ॥ कृपया पितृपादाब्जर्दत्ता मे यादृशी मतिः । तन्मत्या विवृतं भक्तिवृद्धिशास्त्रं सुदुर्लभम् ।। 15
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy