SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ ( 852 ) म्लेच्छाकान्तेषु देशेषु पापैकनिलयेषु च | सत्यपीडाविग्नलोकेषु कृष्ण एव गतिर्मम ।। २ ।। गंगादितीर्थवर्येष दुष्टैरेवावृतेषिह । तिरोहितार्थदेवेषु कृष्ण एच गतिर्मम ॥ ३॥ अहंकारविमूढ़षु सत्येषु पापवर्त्मसु । ' लाभपूजार्थयत्नेषु कृष्ण एव गतिर्मम ॥ ४ ॥ अपरिज्ञाननष्टेषु मन्त्रेष्ववतयोगिषु । तिरोहितार्थदेवेषु कृष्ण एव गतिर्मम ।। ५ ॥ नानावादविनष्टेषु सर्वकर्मव्रतादिषु । पाषण्डैकप्रयत्नेषु कृष्ण एव गतिर्मम ॥ ६ ॥ अजामिलादिदोषाणां नाशको न भवे स्थितः । ज्ञापिताखिलमाहात्म्यः कृष्ण एव गतिर्मम || ७ || प्राकृताः सकला देवा गणितानन्दकं बृहत् । पूर्णानन्दो हरिस्तस्मात् कृष्ण एच गतिर्मम ।। ८ ॥ विवेकधैर्यभक्तयादिरहितस्य विशेषतः । पापासक्तस्य दीनस्य कृष्ण एव गतिर्मम ।। ६ ॥ सर्वसामर्थ्यसहितः सर्वत्रैवाखिलार्थकृत् ।। शरणस्थसमुद्धारं कृष्णं विज्ञापयाम्यहं ॥ १० ॥ कृष्णाश्रयमिदं स्तोत्रं यः पठेत् कृष्णसन्निधौ । तस्याश्रयो भवेत् कृष्ण इति श्रीवल्लभोऽब्रवीत् || ११ ॥ Col.:--- इति श्रीवल्लभाचार्यजीविरचितं श्रीकृष्णाश्रयविवरणं सटीकं संपूर्ण ॥ Post-Col.: यादृशमित्यादि । काशीमध्ये ब्रजभूषणदासेन लिखितं । श्री शुभं । मो० पौषशुक्लपूर्णिमा संम[व]त् १९३५, विजयपठनार्थ ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy