SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ स्वगुरुपरम्परा यथा श्रीकृष्णक्रमदेवर्षि बादरायणसंज्ञकान् । श्रीमध्वश्री पद्मनाभश्रीमन्नृहरिमाधवान् ॥ अक्षोभ्यजयतीर्थश्रीज्ञानसिन्धुदयानिधीन् । श्रीविद्यानिधिराजेन्द्रजयधर्मान् क्रमाद्वयं ॥ पुरुषोत्तमं च ब्रह्मण्यव्यासतीर्थांश्च संस्तुमः । ततो लक्ष्मीपति श्रीमन्माधवेन्द्रं व भक्तितः ॥ तच्छिष्यान् श्रीश्वराद्वैतनित्यानन्दान् जगद्गुरून् । देवमीश्वर शिष्यं श्रीचैतन्यं च भजामहे ॥ श्रीकृष्ण प्रेमदानेन येन निस्तारितं जगदिति गुरुपरम्परा । It ends thus : एवमुक्तं प्राचा- (829) श्रीमन्मध्वमते हरिः परतमः + + जगत्तत्त्वतो भेदो जीवगणा हरेरनुचरा नीचोच्चभावं गताः । मुक्तैर्नैजसुखानुभूतिरमला भक्तिश्च तत्साधनम् अक्षयादित्रितयं प्रमाणमखिलाम्नायैकवेद्यो हरिः ॥ आनन्दतीर्थे रचितानि यस्यां प्रमेयरत्नानि नवैव सन्ति । प्रमेयरत्नावलिरादरेण प्रधीभिरेषा हृदये निधेया ॥ नित्यं निवसतु हृदये चैतन्यात्मा मुरारिर्नः । निरवधिनिर्वृतिमान् गजपतिमान् गजपतिरनुकम्पया यस्य ॥ Colophon : इति प्रमेयरत्नावली पूर्त्तिमागता । The accompanying commentary is by Vedantavagīśa and is entitled Kāntimālā. It begins thus: श्रीगणेशाय नमः । गौड़ोदयमुपयातस्तमः समस्तं निहन्ति यो युगपत् । ज्योतिश्च योऽतिशीतः पीतस्तमुपास्महे कृताञ्जलयः ॥ विद्याभूषणापरनाम्ना बलदेवेन श्रीगोषिन्दैकान्तिना । ब्रह्मसूत्रेषु गोविन्दभाष्याभिधानं व्याख्यानं विरचितं ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy