SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ (Comm.) ( 797 ) उद्धरत्यन्धतमसाद्विश्वमानन्दकारिणी | परिपूर्णा जयत्येका देवी चिच्चन्द्रचन्द्रिका ॥ अभ्यर्थितोऽस्मि बहुभिर्बहुशो भक्तिशालिभिः । व्याकरोमि मनाक् श्रीमत्प्रत्यभिज्ञार्थतः स्तुतीः ॥ ईश्वरप्रत्यभिज्ञाकारो वन्द्याभिधानः श्रीमदुत्पलभट्टदेवाचार्यः अस्मत्परमेष्ठिः सततसाक्षात्कृतस्वात्ममहेश्वरः स्वं रूपं तथात्वेन पराम्रष्टुं अर्थिजनानु- जिघृक्षया संग्रहस्तोत्रजयभक्तिस्तोत्राणि आह्निकस्तुतिसूक्तानि च कानिचित् मुक्तकान्येव बबन्ध ॥ अथ कदाचित् तान्येव तद्वयामिश्राणि लब्धा श्रीरामः आदित्यराजश्च पृथक् पृथक स्तोत्रशय्यायां न्यवेशयत् । श्रीविश्वावर्त्तस्तु विंशत्या स्तोत्रः स्वात्मोत्प्रेक्षितनामभिः व्यवस्थापितवान् इति किल श्रूयते । तदेतानि संग्रहादिस्तोत्राणि सूक्तान्येव प्रसिद्धवार्त्तिकशय्योपारूढानि स्पष्टं व्याकुर्मः । (Text) : मोक्षलक्ष्मीसम | श्लेवरसास्वादमयस्य परमेश्वरसमावेशस्य एकस्मिन्नेव श्लोके यत्र समन्वयो लगति तत् मुक्तकं स्वात्मोत्प्रेक्षिते भक्तिविलासाख्यप्रथम स्तोत्रेत्यादिना उत्प्रेक्षितं नामैषां तैः परमोपादेयतां दर्शयितुं परमेश्वरस्वरूपाविभिन्नतत्समा विष्णुभक्तजनस्तुतिक्रमेण स्तोत्रमाहुः । न ध्यायतो न जपतः स्याद्यसाविधिपूर्वकं । एवमेव शिवाभासस्तं नुमो भक्तिशालिनं ॥ 6B, इति श्रीमदीश्वरप्रत्यभिज्ञाकाराचार्यचक्रवर्त्ति वन्द्याभिधानोत्पलदेवाचार्यविरचिते भक्तिविलासाख्ये प्रथमस्तोत्रे महामाहेश्वरश्रीक्षेमराजविरचिता विवृतिः । 11B, इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्यां सर्वात्मपरिभावनानाम्नि द्वितीयस्तोत्रे श्रीक्षेमराजाचार्यविरचिता विवृतिः । 16B, प्रणयप्रमादनाम्नि तृतीयस्तोत्रे श्रीक्षेमराजविरचिता विवृतिः । 23B, श्रीमदुत्पल० स्वरसोद्वलनाम्नि चतुर्थस्तोत्रे ० ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy