SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ ( 756 ) विद्याधीशं गुरुवरं नत्वा तेषां कृपावशात् । तच्छिष्यार्थं तन्त्रसारपदभावं प्रदर्शये ॥ चिकीर्षुः अथ सकलसज्जन हितार्थमानन्दतीर्थमुनिस्तन्त्रसारसंग्रहं स्वयमन्तराय विधुरोऽपि स्वभावतः कृतमन्येषां प्रारिप्सितविघ्नसमाप्त्याद्यङ्गं [नम ]स्कृतिरूपं मङ्गलं शिष्यशिक्षायै निबध्नाति - जयतीति । कमलापतिः श्रीपतिर्जयति उत्कर्षेण वर्त्तते उत्कृष्टत्वं हेतुभूतं विशेषणद्वयं अभ्यर्हितत्वात् अल्वभ (?) पदस्य पूर्वनिपातः । अनन्ता अपरिच्छिन्नाः विभवः ऐश्वय्यं आनन्दः सुखं शक्तिः सामथ्यं ज्ञानं चानन्त्यादीनि येषां ते सन्तो निर्दोषगुणाः तेजःप्रभेत्यादयो यस्य स तथा । यद्वा, स्तुत्यत्वोपयोगिविशिष्टत्वमधिकृतत्वं च क्रमाद्विशेषणेराह । ज्ञानैश्वर्य्यप्रभेत्युक्तगुणवत्त्वात् । The original has not yet been found. The work is divided in four chapters. At the end there are four verses, giving an account cf the author's family. and his object for writing the commentary. 41A, श्रीमद्भारतनिर्णयस्य विवृतेर्विद्वज्जनानन्दिनी चक्रे भट्ट[ज]नार्द्दनेत्यभिध्या ख्यातेन तत्सूनुना । व्यासाख्येन नरसिंहमध्वकरुणामालम्ब्य तत्तुष्टये । व्याख्येयं वरतन्त्र सारविषये भक्तया कृता शक्तितः ॥ रम्या सुसरला चित्रसमर्था वरवर्णने । सदर्थसहिता चित्रप्रारम्भा वत्सबोधिनी ॥ वेदव्यासकृता तन्त्रसारभाव प्रबोधिनी । चतुर्थाध्यायगा भूयात् प्रीत्ये मध्वनृसिंहयोः ॥ निविशेषवराहादिरूपाणां मध्ववल्लभं | निर्दोषं सचिदानन्दविग्रहं नृहरि भजे ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy