SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ ( 751) श्रीमते रामानुजाय नमः । कुर्व्यन्नादावाचार्य्यप्रणामरूपमङ्गलव्याजेन इह खलु भगवान् कवितार्किकसिंहः सर्व्वतन्त्र स्वतन्त्रः श्रीमान् वेङ्कटनाथाय्र्यः वेदान्ताचार्य्यवर्य्यः रहस्यत्रयसाराधिकारार्थसंग्रहेण शिष्यबुद्धिसमाधानं स्वरूपयाथात्म्यज्ञानं प्रार्थयते । विद्याभेदे प्रपदनमये (in red ink) पृथगुपायत्वेन प्रमाणप्रसिद्धेः प्रपदने इत्यर्थः, स्वार्थे मयट् । तत्र प्रतिष्ठितचेतसः स्थिरचित्ताः अनेन महाविश्वासः सूचितः । दयाधनाः कृपामात्रप्रसन्नाः शिष्यानुवृत्तिनिरपेक्षा इत्यर्थः । शठरिपुशुकव्यासप्राचेतसादीनां ( in red ink ) निबन्धनेषु प्रबलेषु प्रमाणेषु श्रमेण ( in red ink ) सन्तताभ्यासेन परिणततया कर्मज्ञानयोरङ्गत्वात् भक्तेः शक्ताधिकारित्वाच्च । अनुपायतया प्रपत्तिरेवानुरूपोपाय इत्येवंविधबुद्धया परिपक्कया श्रद्धया शुद्धः निःसंशयः आशयो येषां ते तथोक्ताः देशिकाः मम ज्ञानादिगुणरहितस्य प्रज्ञा प्रकृष्टज्ञानं प्रज्ञातदीयशेषत्वज्ञानं पदे पदे प्रतिपदं सन्ततमित्यर्थः दिशन्ति । यद्वा पद्यते प्राप्यते इति पदं प्राप्यं तं प्रति प्रज्ञादायं त्वरारूपं ज्ञानं, अथवा विद्याभेदे प्रपदने अतिष्ठितचेतसः चञ्चलचित्तस्य प्रज्ञादायं अमोघत्वानन्यापेक्षत्वशरण्याभिमतत्वक्षणमात्र निष्पाद्यत्वादिज्ञानं इह इदानीमेव दिशन्तु ददन्तु, प्रार्थनायां लोट् ॥ १ ॥ इदानीं स्वस्य तेषु विश्वासं प्रार्थयते । एते अविच्छिन्नसम्प्रदाया नाथादयः ( in red ink) देशिकाः त्रय्यन्तैर्वेदान्तवाक्यप्रमाणैः प्रतिनन्दनीयाः स्तोतव्या विविधाः स्वरूपोपायपुरुषार्थप्रतिपादकतया नानाविधा उदन्ता उपदेशवाक्यानि येषां ते तथोक्ताः । श्रद्धातव्ययोर्वात्सल्य सुशील्यादिविशिष्टतया विश्वसनीययोः शरण्ययोः प्रपत्तव्ययोः दिव्यदम्पत्योः अनेन विशिष्टस्यैव उपायत्वं सूचितम् । तयोर्दयां सैव दिव्यापगा मन्दाकिनी तस्या व्यापका तत्पात्रभूता इत्यर्थः । स्पर्द्धया परस्परजिगीषया विप्लव उपद्रवः यस्यां सा च विप्रलम्भानां कुमतीनां पदवी च तस्यां वैदेशिका विमुखाः त्रयस्ते(?)त्यादिविशेषणत्रयेण यथाक्रमम् ज्ञानमुक्तिवैराग्याणि सूचितानि । देशिका नाथादयः अस्मद्गुरुपर्यन्ता इत्यर्थः । अपोढ़ः तिरस्कृतः मन्मथशरैरुन्माथः पराभवो येन तस्मै अनेन आचार्य कृपाहेतुभूतं विष्णोः कटाक्षश्च अद्वेषादिप्रमाणप्रतिपादितमद्वेषादिकं सूचितम् ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy