________________
( 737 ) Post-colophon:
श्रीमते हयग्रीवाय नमः । संवत् १८८६ । It begins : श्रीमते रामानुजाय नमः ।
शुक्लाम्बरधरं] विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ यस्या द्विरदचक्राद्याः पारिषद्याः परःशतं । विघ्नं निघ्नन्ति सततं विश्वक्सेनं तमाश्रये ॥२॥ चकुलाभरणं वन्दे ज[ग]दाभरणं मुनिम् । य [ : ] श्रुतेरुत्तरं भागं चक्रे द्राविड़भाषया ॥३॥ श्रीरङ्गमङ्गलमहोत्सववर्द्धनाय वेदान्तपान्थपरमार्थसमर्थनाय । कैंकर्यलक्षणविलक्षणमोक्षभाजो रामानुजो विजयते यतिराजः ॥ (?) ४॥ वेदे रामायणे चैव पुराणे भारते तथा । आदौ मध्ये तथा चान्ते हरिः सर्वत्र गीयते ॥५॥ श्रुतिस्मृतीतिहासे च पुराणं धर्मसंहितं सर्वतः सारमादाय षट्पदः कुसुमाद्यथा ॥ ६ ॥ वैष्णवं नारदीयं च तथा भागवतं शुभम् । गारुड़ च तथा पाद्म वराहं शुभदर्शनम् ॥ ७ ॥ ब्रह्माण्डं ब्रह्मवैवत्तं मार्कण्डेयं तथैव च ।। भविष्यं वामनं ब्राह्मं राजसानि निवोध मे ॥ ८॥ मात्स्यं कौम्मंय तथा लैङ्गय शैवं स्कान्दं तथैव च । आग्नेयं च षड़ेतानि तामसानि निबोध मे ॥६॥ तथैव स्मृतयः प्रोक्ताः ऋषिभिस्त्रिगुणान्विताः । सात्त्विका राजसाश्चैव तामसाः शुभदर्शके ॥ १० ॥