SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ (704 ) It begins : प्रणम्य जगतामीशं सर्वान्तर्यामिनं विभुम् । वेदान्तभूषणं नाम कुर्वे प्रकरणं महत् ॥ यत्रैवारोपितं विश्वं यत्सत्ताक विभासते। तं ब्रह्म परमानन्दमहमस्मीति भावये ॥ यदस्ति शास्त्रे निर्णीतमनुबन्धचतुष्टयम् । तदेवात्र विनिश्चेयं शास्त्रतत्त्वं विपश्चिता॥ तत्रायं विशेषः । सम्पादितसकलसाधनसम्पत्त्या निर्मलमुकुरवत् अतीव विशुद्धतमा बुद्धिः सगुणब्रह्मोपासनालब्धचित्तैकाग्रतया नितान्तनिर्मलः शान्तः ततः केवलं स्वस्वरूपविविदिषायां अतिलिलिप्सावानेव अत्र अधिकारी। अथ पुरुषार्थचतुष्टयेषु मध्ये सकलदुःख निवृत्त्युपलक्षितनिरतिशयपरमानन्दरसस्वरूपस्वस्वरूपावाप्तिरेव मुक्तिः तस्यैव पुरुषार्थत्वं सकलजनस्पृहणीयत्वं च निर्दिष्टं तत्तु ज्ञानसाधनमन्तरेण नोत्पद्यत इति सर्वसम्मतम् । तत् कीदृशं ज्ञानं मोक्षोपयोगीति संशये ब्रह्मात्मैक्यविषयमिति भूयसा प्रयत्नेन सर्वैः शिष्टः विद्वद्भिः परीक्ष्य विनिश्चितम्। तच्च वैदिकप्रमाणकं वेदादेव नानासंशयापनोदनेन लभ्यते। अतः सकलवेदशिरोभागसारभूत मुपनिषदं समालोच्य किञ्चिद् विचारणीयम् । It ends : अतो हेलया आलस्यात् यत्ने न कृते अतिदुःखतमे संसारचक्रे भ्रमत्यहो कष्टम् । इति ॥ रघुनाथः पिता यस्य जयकृष्णः पितामहः । वेदान्तपारदर्शी व स एवात्र कृती स्फुटम् ॥ Colophon: इति श्रीवेदान्तविषये सर्ववेदानां निष्कृष्टार्थनिरूपणं अनायासेन मुक्तिलामाख्यं द्वितीयविवरणं समाप्तम् । Post-colophon: शकाब्दाः १८०२।२।२४।१०
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy