________________
( 636 ) महेशानन्दतीर्थ [तं] महेशापरविग्रहं । शङ्करं शङ्करानन्दं उभौ वन्दे मुहुर्मुहुः ॥ कैवल्यरूपं कलये तीर्थ कैवल्यनामकम् । कैवल्यकारिणं पुंसां कैवल्येच्छावतां गुरुम् ॥ शुद्धानन्दयतीश्वरस्य शुभदं वन्देऽविपद्मद्वयम् । शुद्धब्रह्मविचारमार्गकुशल स्वान्तस्य शुद्धिप्रदम् ॥ शुद्धत्वादपि कायकर्मवचसामानन्दहेतोर्नृणां शुद्धानन्द इति प्रसिद्धिरमला यस्यार्थतो नामतः ॥ भुवि कश्चन पूर्णनामको विशिखो विष्णुमयोसितच्छदः । त्रिपुरात्मविभेदने पटुर्भवसन्तापहरो विराजताम् ॥ विघ्नेश्वरः सदा भूयात् विघ्नध्वान्तदिवाकरः । श्रेयसां निधिरानन्दः श्रेयसे यशसे मम ॥
अद्वैतरत्नकोशाख्ये ग्रन्थेऽहं गुरुचोदितः ।
कोषरत्नप्रकाशाख्यां व्याख्यां कुर्वे यथामति ।। इह खलु कश्चित् विपश्चित् नृसिंहाश्रमनामा योगीश्वरो वादिवारणनिवारणपश्चाननः स्वयमेव स्वकृततत्त्वविवेकव्याख्यामद्वैतरत्नकोषाख्यामारभमाणः तत्राभ्रान्तप्रवृत्यर्थं विषयफले दर्शयन् स्वचिकीर्षितस्य ग्रन्थस्य निरन्तरायपरिसमाप्तीच्छया स्वेन शास्त्रप्रतिपाद्यस्वेष्टदेवताकारपरतत्त्वानुष्ठितिलक्षणं मङ्गलं मनसानुष्ठितमपि चालिशशिष्यानुजिघृक्षया श्लोकतो दर्शयति-यदालिङ्गयेति । ____For the text see I.O. Catal. No. 2379 and L. 2862, and for the author's commentary Advaitaratnakosa see I.O. Catal. No. 2380.
8514 8539. रत्नकोषः Ratnakosa. Being a sub-commentary on Tattvaviveka.
Substance, country-made paper. 9x37 inches. Folia, 287. Lines, 10-15 on a page. Extent in slokas, 16,000. Character, Nagara. Place of deposit, Calcutta, Government of India. Appearance, old. Prose. Generally correct.