________________
( 589 ) मातनंतोऽस्मि भवतीमथ चार्थये त्वां चेतः सरस्वति सुरेश्वरवार्तिकेन । वाचा सहैव सदनुग्रहसंप्रसन्नमेकाग्रमस्तु परिहाय पराञ्चमर्थ ॥५॥ श्रीमद्वयासपयोनिधिनिधिरसौ सत्सूक्तिपंक्तिस्फुरत् मुक्तानामनवद्यहृद्यविपुलप्रोद्योतिविद्यामणिः । शान्तिः शान्तिधृती दयेतिसरितामेकान्तविश्रान्तिभूः भूयानः सततं मुनीन्द्रमकरश्रेणीश्रयः श्रेयसे ॥ ६ ॥
यद्भाष्याम्बुजजातजातमधुरप्रेयोमधुप्रार्थना स्वार्थव्यग्रधियः समग्रमरुतः स्वर्गेऽपि निर्वेदिनः । यस्मिन् युक्तिपथः पथीनमुनिभिः सम्प्रार्थितः सम्बभौ तस्मै भाष्यकृते नमोऽस्तु भगवत्पादाभिधां बिभ्रते ॥७॥
संसाराम्भोधिपाय प्रकटनपटुतागाढ़गूढ़ागमान्तव्याख्याव्याख्यातविद्वन्निवहमहिमसंव्याप्तसावकाशः । शश्वत् विश्वात्ममोहप्रवहहुतबहः स दुहानः सुधानां धावां गीर्भिः सुरेशः स जयति यमिनामग्रिमग्रामणीन्द्रः ॥ ८॥
यत्पादाम्बुजचञ्चरीकधिषणा निर्वाणमार्गाधिगा पंक्तिर्मुक्तनिसर्गदुर्गदुरिता पाचंयमानामियं । यस्मिन्नित्यमिदं शमादि समभूत् बोधारो मे यतः शुद्धानन्दमुनीश्वराय गुरवे तस्मै परस्मै नमः ॥ ६॥
कारुण्याम्भोनिधिभ्यो विधिशतवशगान् प्राणिनो मोचयद्यः विद्यापारं गतेभ्यो गतवितततमस्तोमवद्भयो महद्भयः। आ भूमेरा च सत्यात् प्रथितपृथुयशःश्रेणिनिश्रेणिभागभ्यस्तेभ्यो सद्भयो गुरुभ्यस्त्रिविधमपि नमः सन्ततं संविदधुः ॥ संप्रदायविदामुक्तीरनुस्मृत्य प्रणीयते । शास्त्रप्रकाशिका सेयं सुरेश्वरचचोनुगा ॥