SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ ( 565 ) Colophon: इति श्रीशङ्कराचार्यविरचितं उपदेशपञ्चकं सम्पूर्णम् । Advice, conveyed in five verses : ॐ वेदो नित्यमधीयतां तदुदितं कर्मस्वनुष्ठीयतां तेनेशस्य विधीयतामपचितिः काम्ये मतिस्तज्यताम् । पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयतां आत्मेच्छा व्यवसीयतां निजगृहात्तूर्ण विनिर्गम्यताम् ।। सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढ़ा धीयतां शान्त्यादिः परिचीयतां दृढ़तरं कांशु सन्तज्यताम् । सद्विद्या उपसर्ग्यतां प्रतिदिनं तत्पादुका(के) सेव्यतां ब्रह्मवाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समुत्कर्ण्यताम् ॥२॥ वाक्यार्थश्च विचार्य्यतां श्रुतिशिरःपक्षः समाश्रीयताम् दुस्तात् सुविरम्यतां श्रुतिमतस्तर्कोऽनुसन्धीयतां । ब्रह्मवास्मि विभाव्यतामहरहर्गवः परित्यज्यताम् देहेऽहंमतिरुज्भयतां बुधजनैर्षादः परित्यज्यतां ॥३॥ क्षुद्वयाधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यताम् स्वाद्वन्नं न तु यत्यतां विधिवशात् प्राप्तेन सन्तुष्यतां । शीतोष्णादि समुह्यतां न तु वृथा वाक्यं समुच्चार्य्यतां औदासीन्यमपीप्स्यतां जनकृपानेष्टुर्यमुत्सृज्यतां ॥४॥ एकान्ते सुखमास्यतां परतरे चेतः समाधीयताम् पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम् । प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यताम् प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥ ५॥ यः श्लोकपञ्चकमिमं पठते मनुष्यः सञ्चिन्तयत्यनुदिनं स्थिरतामुपेत्य । तस्याशु संसृतिद[]वानल तीवघोरतापः प्रशान्तिमुपयाति वितिप्रसादात् ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy