SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ( 477 ) एवं सर्वहितं चरन्नपि यदा खिद्यत्तदा नारदात् तत्रोपायमवेत्य खेदहतये दृष्ट्वा समाधौ हरिम् । श्रीमद्भागवतेन संशयमहन् भक्तिप्रचारोद्यत स्तं कृष्णं मुनिमानमामि सततं ज्ञानावतारं हरेः॥ ३ ॥ मार्गादौ खमतं समस्य विषये यं ब्रह्मवादं जगौ कौन्तेयोद्धवयोः प्रकाश्य च पुनर्वेदान्तसारं हरिः। तं व्यासाशयगोचरं प्रथयितुं यैर्भाष्यमाभाषितं नानाचार्यवरानमामि करुणान् श्रीवल्लभाख्यान् प्रभून् ॥ ४ ॥ श्रीवल्लभप्रतिनिधिं तेजोराशिं दयार्णवम् । गुणातीतं गुणनिधि श्रीगोपीनाथमाश्रये ॥ ५ ॥ श्रीविठ्ठलेशपादाजनखचन्द्ररुचः सदा । अलंकुर्वन्तु मत्स्वान्तं मायावादतमोहराः ॥ ६ ॥ तत्पुत्रान् सह सूनुभिर्निजगुरून् श्रीकृष्णचन्द्राहयान् भक्त्या नौमि पितामहं यदुपति तातं च पीताम्बरम् । वन्दे च ब्रजराजमन्वयमणिं यद्रोचिषा मादृशो प्यासोन्महि कृपापरः प्रभुवरः श्रीबालकृषाः खयम् ॥ ७ ॥ श्रीवल्लभाचार्यपदाम्बजाते भक्त्या मुदान्तहदि सनिवेश्य । भाष्यप्रकाशे प्रयतेऽतिदीनः निःसाधनस्तत्करुणाबलेन ॥ ८॥ आचार्यवाचः प्रणमामि भाष्य सुबोधनौस्था इतराश्च यास्ताः । मत्स्वान्तमागत्य कृपाप्लुतास्ताः मदीयवाचां रचयन्त्वलङ्कतिम् ॥ ६॥ अथ खालौकिकानुभावप्रकटनहृदयस्य भगवत आज्ञया तदर्थमाविर्भूताः श्रीमदाचार्याः तस्यानुभावस्य सर्ववेदान्ततात्पर्यगोचरत्वज्ञापनाय वेदार्थतामरसतरणेभगक्तो बादरायणस्य सूत्राणि व्याकरिष्यमाणाः .. सूत्रार्थो वर्ण्य ते यत्र वाक्यैः सूत्रानुसारिभिः । खपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुरिति । भाष्यलक्षणात् सूत्रोपन्यास एव अनुसरणसिद्धेः स्वकृतेरादित एव भाष्यत्वाय सूत्रीयाथशब्देन मङ्गलसिद्धेश्च सूत्रमादौ पठन्तिअथातो ब्रह्मजिज्ञासेति ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy