________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(
55
)
शब्दब्रह्ममयं रौद्रं सर्वव्यापकविग्रहम् ।
उन्मत्तभैरवं नत्वाप्रच्छन्नन्मत्तभैरवौ ॥ उन्मत्तभैरव्यवाच ।
रहदानन्द-भूतेश सतीश भक्तवत्सल । बदख सर्वभूतेश श्रीरहद्भुतडामरम् ॥ कथं यक्षा नरा नागाः किन्नराः प्रमथादयः । डाकिन्यः कुलखेचर्यो देव-गन्धर्च-नायिकाः ॥ सिद्धदानवकन्याश्च योगिन्यः कामनायिकाः । जम्बदौपे कलौ सिद्धिं यच्छन्त्येषां वराङ्गणाः ॥ ये स्यः पापरता मिथ्यावादिनः शीलवर्जिताः । सालस्या ये नरास्तेभ्यः साहाय्यं कुरुथ खयम् ॥ केनोपायेन नश्यन्ति कलौ क्लेशौघराशयः । महापातकलक्षाणि तथोपपातकानि च ॥ दुष्ग्रहा दुरानागा दुष्ठभूतादयस्तथा । विनश्यन्ति तथा दुटा महाविघ्नकराश्च ये ॥ लभ्यन्ते सिद्धयः सर्वाः मोक्षपद्धतयः शुभाः । सिद्धयोऽप्यणिमाद्याः स्यमहापातकनाशनाः ॥ अन्यान्नाशनतः पापमन्यस्त्रीगमनादिकम् । परद्रोहकृतं पापं परद्रव्याभिलाषकम् ॥ विशमासादिकं पापमभिनिन्दा महाभयम् । कथं नश्यति देवेश हेलया नरकं तमः ॥ चन्द्रसूर्यप्रभो भूत्वा स्थितौरुद्रपुरे चिरम् । सुरेन्द्र-सिद्ध-नागेन्द्र-भूत-यक्षेन्द्र-नायिकाः । गुह्यवेतालगन्धर्व-महोन्द्रकुलनायिकाः ॥ हठादागत्य कामात बलादालिङ्गयन्ति तम् ॥ उक्तयोगेन्द्रकन्याश्च भूतडामरनायिकाः । मन्त्रस्मरणमात्रेण केन सिद्धा भवन्ति ताः ॥
For Private and Personal Use Only