________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 508 )
Beginning :
श्रीगणेशाय नमः। अथ सौभाग्यकल्पलतिकाप्रारम्भः । नमामि चिन्मयौं स्वात्मामर्शानन्दशरीरिणौं । त्रिपुरां त्रिपुरेशानौं पराहंभावरूपिणीम् ॥ नत्वाम्बिकापादपद्मइन्दं इन्दनिवर्तकं । विनौषघ्नं च गणपं देवौं वाचं सरखतौं ॥ महागुरून् माधवाख्यान् कल्पद्रुमपयोर्णवान् । शिवानन्दाख्ययोगोन्द्रान् प्रपञ्चोयोतनारुणान् ॥ आलोक्य परमानन्दतन्वं तत्तन्त्र टिप्पनं । सौभाग्यानन्दसन्दोहाभिधं च त्रिपुरार्णवम् ॥ ज्ञानार्णवादिश्रीतन्त्राण्यपि बुद्ध्या विम्टश्य च । महागुरोर्विदित्वा च सम्प्रदायमशेषतः ॥ साधकानां मनोहर्षहेतवे गुरुणोदितः । सौभाग्यकल्पलतिका कल्पद्रमविलासिनौं । श्रीविद्योपास्तिसन्मार्गप्रकाशफल शालिनीम् । उन्मेषयामि विशदां परमानन्दधानिकां ॥ कल्पद्रुमोपि सौभाग्यानन्दसन्दोहनिर्भरः । न तथा सुखयेत् खान्तं संश्रितानां हि सर्वथा ॥ यथा सुललिताकारलतासम्बलिताकृतिः । कल्पद्रुमः सुखयति साधकाभौरदानतः ॥ मन्दानुग्रहणोद्युक्तैर्ग्रन्थलाघवतत्परैः । प्रयोगमात्रो रचितस्तच्छास्त्रार्थविवेचनम् ॥ गुरुभिर्न कृतं कल्पद्रुमे तन्त्रस्य टिप्पने । विशदं चातिविस्तारादगम्यं मन्दचेतसां ॥ इति मत्वा कृतो यत्नः प्रेरितेनानुजौविभिः । गुरुवाक्संश्रयेणापि शुध्यामीति मनौषया ॥
For Private and Personal Use Only