________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(
449 )
मेरुपर्वतस्तन्मध्ये सर्वदेवाश्रयः शिवे । महाधौरा नदी तत्र मध्ये देशे व्यवस्थिता । सुमेरोश्चोर्द्धदेशे तु सत्यलोकं वरानने । अधोभागे महेशानि प्रतिष्ठितं रसातलम् ॥ एवं क्रमे मेरुमध्ये भुवनानि चतुर्दश । पाताला सप्तकस्यो? ब्रह्मपनं महेश्वरि ॥ अधोवस्त्रं हि तत् पद्मं धौरा मध्ये चतुईलम् । पद्ममध्ये बीजकोषे क्षितिचक्रं मनोहरम् ॥ वलयाकाररूपेण समुद्राः सप्त संस्थिताः । जम्बुद्दौयं मध्यदेशे चतुष्कोणं मनोहरम् ॥ त्रिकोणं मदनागारं कन्दर्पश्चाधिदेवता । तन्त्ररूपं हिलबीजं गजेन्द्रवाहनं शिवे ॥ त्रिकोणे मदनागारे लिङ्गरूपो महेश्वरः] । मायाशक्तिर्महेशानि भुजगाकाररूपिणी । तयैव वेष्टितं लिङ्गं साईत्रिवलयाकृति । लिङ्गच्छिद्रं श्ववक्त्रोण समाधित्य स्थिता सदा ॥ ऐन्द्रं बौज वरारोहे लिङ्गस्य वामदेशके । सुसिद्धं ब्रह्मसदनं नादोपरि सुशोभनम् ॥ तत्रैव निवसेट्मा सृष्टिकर्ता प्रजापति[:] । वामभागे च सावित्री वेदमाता सुरेश्वरौ ॥ तस्याः प्रसादमात्रेण सृशिर्वितनुते सदा । यद्रूपं ब्रह्मसदनं लक्षयोजनविस्तृतम् ॥ तत् सव्वं परमेशानि ऋग्वेदाख्ये मयोदितम् । त्रिकोणे परमेशानि विषष्टितमकोटकाः ॥ तदैव परतराः प्रोक्ताः सर्वदेवाश्रयं हि तत् । त्रिकोणमध्ये तद्बाह्ये पश्यापूर्व वरानने ॥ स्थावरं पर्बतं पश्य कौटं पशुमनुत्तमम् । खगं लवादिकं तत्र नास्ति किं एथिवौतले ॥
29
For Private and Personal Use Only