________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 403 )
नादृतास्तैस्तु वेदादिस्मृतयो वै वृथागमे । खानं पानं मैथनञ्च देशे देशे पुरे पुरे ॥ न कश्चिन्मन्यते विष्णु गणेशं न रविं शिवम् । मत्वा सर्वे जगच्छाक्तं भगपूजां प्रकुर्वते ॥ तदा वटुकरूपेण मया एयः पितामहः । ब्रह्मणादिश्यतां धर्मो वयं येन तरेमहि ॥ तदा नु ब्रह्मणा प्रोक्तं ममोर्द्धमुखनिर्गतः । आगमः पञ्चमो वेदः मुक्तिमुक्तिप्रदायकः ॥ तदाद्य कलिसंघे तु मया प्रोक्तः पितामहः । ब्रह्मणेदं त्वया वाच्यं सृरिकर्ता सदाशिवः ॥ तदा पितामहेनोक्तं कर्ताहं चापि रक्षकः । ममोलमुखतो जातं मन्यसे चान्य आगमः ॥ एवं तवाचारनिष्ठा यास्यन्ति परमां गतिम् । वटुस्त्वं वत्स नो सौख्यं खानयानागानाभवम् ॥ इति श्रुत्वा ब्रह्मवचो धम्मसंस्थापनाय तु । युगत्रयं तदा जातं क्रोधसंरक्तलोचनम् ॥ अवज्ञा वौक्ष्य धातुश्च प्रखरेण नखेन च । शिरो निपातितं धातुः कराङ्गुल्या धरातले ॥ तन्मखात् पञ्चमो वेदो मम देहे लयं गतः । तस्मादागमकर्ताहं वेदकर्ता पितामहः ॥ पञ्चाशदै महापद्मो ह्यागमग्रन्थ ईरितः । तत्र मन्त्रा महादेवि सङ्केपि सुप्रतिष्ठिता ॥ त्रिंशनिखर्चषड्न्द नवत्यर्बुदकोटयः । मन्त्राः प्रोक्ता महेशानि त्वागमे कुत्र किं स्थितम् ॥ तत् पूटणु त्वं महेशानि यद्यहं तव वल्लभः । पञ्चाशच्च महापद्मं घड्विंशति भुवि स्थितम् ॥ चतुर्दश स्थितं खर्गो [गै?] दश पातालगोचरम् । एवं क्रमेण देवेशि ह्यागमः कथितो मया ॥
For Private and Personal Use Only