________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 354 )
व्यंसासक्तोत्तमखग् वनभुवि सततं यो रिरंसानुरक्तो गुंजोजसाभिरामः प्रतिभयसमरे यो नृशंसारिहन्ता । भक्ताशंसाभिपूत सकरुणहृदयो यो बलं सावलेपं बिम्नद्वंसाभकीर्त्तिर्वितरतु विविधं शम्भ कंसाहि (?) तत ॥ ३ ॥ भाले प्रालेयरश्मिं दधदतिरुचिरं शोभने कण्ठदेशे तारं हारं फणीन्द्रैः फ[f]णमणिसुभगैर्निमितं दौप्तिमन्तम् । वामां वामाङ्गदेशे नलिन निभमुखीमुन्मखीमिष्टदाने भक्तानां विश्ववन्द्यो भसितसिततनुः संविधत्तां महेशः ॥ ४ ॥ उदारचरिताद्भुता सुरगणैः समस्तैः स्तुता युता निखिलसद्गुणैईतधुतावसङ्घा नृणाम् । कृपाकलित सेवनोद्यततमात्मभक्तायुता शुभं तव निरन्तरं कलयतु क्षमाभ्टत्सुता ॥ ५ ॥ कर्पूरस्फुटकैरवेश्वरगिरिप्रालेयगोत्राधरखः सिन्धूदक पूर्ण शारदविधुखच्छप्रभाभासुरां । सत्तामलमौक्तिकालिकृतेर्भूषागणैर्भूषितां
गुप्ताद्भुतशक्तिदाननिपुणां वागीश्वरीमाश्रये ॥ ६ ॥ दृप्यद्दैरिसमुच्चयक्षयकरः कीर्त्तिद्युतिद्योतिताशेषाकाशदिगन्तरः पटुतरः प्राज्ञौघवित्तार्पणे । राजद्राजसभासभाजितगुणग्रामोऽभिरामो भ्टणं भक्तः श्रौन्न्रहरेर्विभाति भुवने बुन्देलभूपान्वयः ॥ ७ ॥ यत्पाणौ नृहरेः सदैव चरणावानर्च्चतुः सादरं दाने चाङ्घ्रियुगं महोदिविषदां प्रक्षालयाञ्चक्रतुः । युद्धे चिक्षिपतुश्च मार्गणगणं हन्तुं परानीकिनौं त्रैलोक्यप्रथितात्यो मधुकरो राजा स यत्राभवत् ॥ ८ ॥ संफुल्लानि तनोति सर्व्वसुजनः खान्ताम्बुजन्मानि या सख्यं व्यातनुते श्रुता श्रवणयोः स्तुत्या कवीन्द्रवनैः । खर्लोके वलिसम्मनि क्षितितले यस्याः प्रकाशोऽनिशं ख्याता चित्रचरित्रयुग्विजयते यत्कीर्त्तिसत्कौमुदौ ॥ ६ ॥
For Private and Personal Use Only