________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 287 )
आदिनाथ उवाच ।
प्रत्येकं मन्त्रशास्त्रन्तु कौलाचारमतानुगं(मं)। कौलाचारविहीनस्तु कल्पयाम्यहमादरात् ॥ कटाक्षमस्ति देवेश तन्मन्त्रागममादरात् । पाठान्मन्त्रोक्तफलदं कुरु चिन्मयविग्रह ॥ इत्यक्तं तु महेशस्तु तदादिश्य पिता ययौ । आदिनाथस्तु गिरिजे शिष्यैरध्यापितं मनुः ॥ तस्य तस्य च भाषायां मन्लतज्जयलक्षणं । प्रयोगं चोपसंहारं उक्तवानपि पावती ॥ घट् प्रयोगान् क्रमेणैव देवतामन्त्रमादरात् । प्रादौ तद्देवतां वक्ष्ये मत्स्येन्द्रोक्तिसुसिद्धये ॥ रतिर्वाणौ रमा ज्येष्ठा दुर्गा चैव तु कालिका । षट्कम्मदेवताः प्रोक्ताः कर्मादौ तां न पूजयेत् ॥ तस्या ध्यानं] च कृत्वा तु तन्मन्वं जयमादरात् । चिन्तितं च भवेदेवि नात्र कार्या विचारणा ॥ अर्चयेदेवतामादौ जितं मन्त्र कुलेश्वरि । जपसिद्धिमवाप्नोति शाबरं चामृतं मनुः ॥ षट्कर्मणां च नामानि वक्ष्येहं पार्वति पूटण । प्रथमं शान्तिकम्म च वश्यं चैव तदुत्तरं॥ टतीयं स्तम्भनं कम विद्वेषं च चतुर्थकं । उच्चाटनं च गिरिजे पञ्चमं कम्ममादरात् ॥ घठं मारणकर्म च मन्त्रशास्त्रेषु निश्चितं ।
लक्षणं तस्य वक्ष्यामि तव पर्चतनन्दिनि ॥ End :
ॐ ह्रौं ग्लौं ग्लौं महामाये आघोरशक्ति बाघोरपराक्रमे आधोररूपे एह्येहि घेघे आमुकशत्रु मारय मारय शोणितं पिब पिब ग्लौं ग्लौं ह्रौँ स्वाहा ।
For Private and Personal Use Only