________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(247
>
व्याकारस्य कथं देव प्रणमन्ति च नित्यशः । स्वयमेव तु यो नष्टो यस्तु चित्तेन कल्पितः ॥ शब्दस्य क्व [च] तस्यैव मन्त्रत्वमपि बुध्यते ॥ १२ ॥ प्रयुक्तमथ वौणा यं तन्त्रीखरसमन्वितम् । चित्तेन साध्यते तस्य षड्जमध्यमधै ( है ) वतम् ॥ १३ ॥ तथा मंत्रा[:] तथाकारा विद्या चैव सहस्रशः ।
Acharya Shri Kailassagarsuri Gyanmandir
प्रबुद्धधियो मूढाः स्वचित्ता च बहि [:] स्थिताः ॥ १४ ॥ वृत्ति[:] केनैव सन्तुष्टा भ्रामिता च त्वया पुरः । व्यसत्यमिन्द्रजालञ्च यद्रूपं सकलं प्रभो ॥ १५ ॥ उच्चार्य्यमाना ये मन्त्रा न मन्त्रा चापि ये विदुः । मोहित देवगन्धर्व्वा मिथ्याज्ञानेन गर्व्विताः ॥ १६ ॥ मायाः खप्नोपमाः सर्व्वे मुद्राध्यान च धारणाः । न तच्चित्रमिदं सत्यं शास्त्रजालं क्रियागमम् ॥ १७ ॥ सोम उवाच ।
देव्या विनायकस्यैव षन्मुखस्य त्रिलोचन | नंदिभ्रंगिमहाकाल - कुवेरशक्रयोस्तथा ॥ १८ ॥ वासुकिच गरुत्मांश्च तथा नारायणस्य वै 1 सनत्कुमारप्रमुख-ऋषौणां भावितात्मनाम् ॥ १६ ॥ goo[a] प्रमुखा ये शास्त्रे या च संहिताः । मन्त्राश्च विविधाकारा विद्याश्चापि सहस्रशः ॥ २० ॥ कथितं तु त्वया सर्व्वं तेषां चैव समासतः । तानि सर्व्वाणि देवेश शिरःस्थेन मया श्रुतम् ॥ २१ ॥ भ्रामिताच त्वया सर्व्वे व्यायामेन महेश्वर | नाख्यातं कस्य चेज्ज्ञानं शारीरं गूढगोचरम् ॥ २२ ॥ व्यप्रबुद्धाच्च ते सर्व्वे भ्रामिताः शास्त्रपाठके । नास्ति त्वत्सदृशो धूर्तो वाग्जाले बुद्धिनाशनः ॥ २३ ॥ तन्त्रे तन्त्रे [व] या प्रोक्तं मया प्रत्यक्षतः श्रुतम् । शपथानि व्यसंख्यानि मिथ्या देव त्वया कृताः ॥ २४ ॥
For Private and Personal Use Only