________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( 212 )
Beginnings of the different Patalas :
Patala I :
श्रीगुरु ऐक्यानन्दपादुकां पूजयामि नमः ॥ श्रीमत्कैलासशैलाग्रे कल्पवृक्षमहतले | प्राह रत्नासनासीनं सर्व्वजं सर्व्वमङ्गलम् ॥ सर्व्वमङ्गल उवाच ।
श्रुतं विधानं विद्यायाः साङ्गोपाङ्गसविस्तरम् । स्वतन्त्रैरन्यतन्त्रैश्च यथा यथा निरूपणम् ॥ ब्यनन्वयैरन्यरूपैरन्योन्य[1]दिमतक्रमैः । व्यसंप्राप्यैकरूपत्वात् सन्देहो जायते मम ॥ व्यप्यपरेषु तन्त्रेषु यत् पुरोक्तं शिव त्वया । तथा चरितुमत्यन्तमशक्यं योगिनामपि ॥ प्रतितन्त्रे विशेषोऽस्ति तत्तदाकलनं यदि । तद्दिधावक्षमः साक्षात् सर्व्वज्ञोप्यतिविस्तरात् ॥ तस्मात्तत् श्रोतुमिच्छामि साङ्गोपाङ्गानुशासनम् | सारं समस्ततन्त्राणां प्रशस्तं नातिविस्तरम् ॥ शुष्कत्वात्वघमच्छ्राघ्यमार्द्रत्वादपथं तदा । पथद्दयचरं मार्गं मंगलावहमुत्तमम् ॥ सर्व्वसिद्धिकरं सर्व्वपुरुषार्थैकसाधनम् । विधानं सर्व्वविद्यानां बोधनं पापनाशनम् ॥ विद्याखरूपमुद्धारचक्रजन्माक्षरक्रमम् । तयोरैक्यानुसन्धानमशमद्वैतकं वद ॥
श्रीसर्व्वज्ञ उवाच ।
पूणु देवि प्रवच्यामि तव प्रश्नानुरूपकम् । नारायणाय कल्पादौ श्रिया संसूचितं क्रमम् ॥ रूपं त्रिपुरसुन्दर्य्या विद्याया हृदयं परम् । चक्रराजमदः साक्षाद्विधानं विश्वदुर्लभम् ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir